________________
दशम उल्लास । ज्योत्लाचन्दनमाला हालाहलतां परिप्राप्ताः ।
संप्रति सुदृशो हन्ताऽनेन किमुक्तेन न ब्रूमः ॥ न अम इति निषेधो बिरहे शीतलानामपि दुरुत्सहत्वस्य अतिप्रसिद्धत्वं व्यनक्ति।
क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ (का० १०७, उ०) किया कारकण्यापारः प्रसिद्धसामग्रीनिषेधेऽपि तत्कार्यरूपफलस्याभिव्यक्तिर्विभावना । अप्रसिद्ध कारणमाक्षिपतीति न विरोधः । वैयाकरणाः क्रियाया एव हेतुतां मन्यन्ते । तथा च हेतुरूपक्रियाप्रतिषेधेऽपि तत्फलप्रकाशनं विभावना । वस्तुतस्तु कारणप्रतिषेधेऽपि कार्यवचनं विभावनेत्यन्ये । यथा
कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टाऽपि ।
परिवर्तते स्म नलिनी लहरीभिरनालोडिताऽप्यघूर्णत सा॥ सा नलिनी कुसुमितलताभिरहताऽपि रुजं म्लानिं अधत्त । अलिकुलैरदष्टापि परिवर्तते म संकुचिता । लहरीभिरनालोडिताऽपि अघूर्णत बभ्रामेत्यर्थः । अत्र लताहननादिकं हेतुस्तदमावेऽपि पीडादिधारणं कार्यमुक्तमिति प्रकृतोदाहरणता ।
विशेषोक्तिरखण्डेषु [५० ५२,१] कारणेषु फलावचः। (का० १०८, पू०) फळावचः कार्यानभिधानम् । अत्राप्यप्रसिद्धं कारणं सिद्ध्यतीति न विरोधः । यथा
निशात्ययव्यञ्ज(ञ्जि १)नि पङ्कजानामामोदमेदखिनि गन्धवाहे ।
न मुञ्चते कैतवबद्धनिद्रावन्योऽन्यकण्ठग्रहणं युवानौ ॥ ' यथासङ्घ क्रमेणैव क्रमिकाणां समन्वयः॥ (का० १०८, उ०)
यथासङ्ख्यमिति यथासङ्ख्यनामालङ्कार इत्यर्थः । क्रमेण पूर्वस्य पूर्वेण मध्यमस्य मध्यमेन अन्त्यस्य अन्त्येनेत्यर्थः । यथा
एकस्त्रिधा वससि चेतसि चित्रमेतत् देव द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ॥ देव ! द्विषां चेतसि शौर्योष्मणा तापं पुष्णन् , विदुषां चेतसि विनयेन संमदरसं पुष्णन् , मृगीदृशां चेतसि लीलया रतिं पुष्णन् एको विष्णुस्त्रिधा चेतसि वससीत्यर्थः ।
सामान्यं वा विशेषो वा यदाऽन्येन समर्थ्यते ।
ज्ञेयः सोर्थान्तरन्यासा साधयेणेतरेण वा ॥ (का० १०९) भनुपपलमानतया संभाव्यमानस्यार्थस्य उपपादनार्थ यदर्थान्तरस्य न्यसनं उपपादकत्वेन न्यासः स अर्थान्तरन्यासः । तत्र सामान्यस्य विशेषो विशेषस्य सामान्यं समर्थकमिति द्वौ; तत्रापि साधर्म्य-वैधाभ्यां भेदद्वयमिति चत्वारो भेदाः । साधर्म्यण तत्रापि सामान्यविशेषेण । यथा
मु.पु. 'सदायेन' इति पाठः। २ मु. पु. 'यत्तु' इति ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org