Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
७६
काव्यप्रकाश खण्डन
उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा । एकस्य द्वयोस्त्रयाणां वा
अनुपादाने लुप्ता ।
साग्रिमा ।
श्रत्यार्थी च भवेद् वाक्यें समासे तद्विते तथा ॥ (का० ८७) थे[व] वादिशब्दा यत्परास्तस्यैव श्रुत्यैव उपमानता प्रतीतिरिति । यथे [व] वादिशब्दसत्त्वे श्रौती तथैव 'तत्र तस्येवेत्यनेन इवार्थे [प० ४६, २] विहितस्य वतेरुपादाने । सदृशतुल्यादि - शब्दप्रयोगे 'सरसिजमिदमाननं च तस्याः सम' मित्यादौ प्रकृताप्रकृतपर्यालोचनयैव उपमानोपमेयप्रतीतिरित्यार्थी, ' तद्वत्तेन च तुल्य' मित्यादिना विहितस्य यतेः स्थितौ । ' इवेन नित्यसमासो विभक्त्यलोप' इति नित्यसमासे इवशब्दप्रयोगे समासगा । समासानुशासनप्रयोजनमभिरिव राजा इत्यादौ | अत्रेदमवधातव्यम् - चन्द्र इव मुखमित्यत्र यज्जातीयधर्माश्रयश्चन्द्रः तज्जातीयधर्माश्रयो मुखमित्युपमेय विशेष्यकैव प्रतीतिः, न तु चन्द्रनिष्ठ सजातीयधर्माश्रयो मुखमिति प्रकृति विशेष्यक एव प्रत्ययः । तथा सति हंसीव धवलश्चन्द्र इत्यादौ प्रतीतिमान्थर्यविरहेण दोषो न स्यात् । हंसी निष्ठधवलत्वसजातीयधवलवत्तया चन्द्रप्रतीतावनुभवसिद्धं मान्थर्थं न स्यात् । उभयविशेष्यकत्वे तु पुंस्त्वान्वितधवलपदस्य हंस्यामनुन्वयेन चन्द्रमात्रान्वये विवक्षितप्रतीत्यनुपपत्तिर्दोषसंभव एवेति । चन्द्र इव मुखं आह्लादकं इत्यत्र आह्लादकत्वस्य उभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणं नपुंसकानपुंसकयोरित्यनुशासनात् इति । क्रमेणोदाहरणानि -
W
उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः । बालवैधव्यदग्धानां कुलस्त्रीणां यथा कुचाः ||
चकितहरिण लोललोचनायाः क्रुधि नितरामरुणाभिरामशोभां । सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते ।
तस्या नायिकाया इदमाननं मुखं सरसिजं कमलं च समं तुल्यमिति कृत्वा चेतसि मनसि संमदमानन्दं विधत्ते करोति । तस्याः कीदृश्याः ? चकितश्चञ्चलो यो हरिणो मृगस्तद्वल्लोले
चले लोचने यस्याः । आननं कीदृशम् ? क्रुधि क्रोधकाले तरुणः कठोरो योऽरुणः सूर्यस्तद्वारा उद्भटा हारिणी मनोहारिणी कान्तिदप्तिर्यस्य [ प ० ४७.१] तत् । इयं च समशब्दयोगादार्थी -
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वती - परमेश्वरौ ॥ आद्यन्त- मध्यरहितं दशाहीनं पुरातनम् । अद्वितीयमहं वन्दे मद्वत्रसदृशं हरिम् ॥ गाम्भीर्य गरिमा तस्य सत्यं गङ्गाभुजङ्गवत् । [ दुरालोकः स समरे निदाघाम्बररत्नवत् ॥ ]
Jain Education International
↑ मु.पु. 'क्रुधि तरुणारुणतारहार कान्ति' इति पाठो लभ्यते । अत्र च व्याख्याऽपि तथैव पाठानुसारिणी कृता दृश्यते ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148