Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
नवम उल्लास . ' , विमितरूपसार्थकानर्थकशब्दनिष्ठं पुनरुक्तस्येव पुनरुक्तवत् आभासो ज्ञानं एकार्थत्वेनापाततो भा[स]नं पुनरुक्तवदामासः । अर्थान्तरसमितेऽतिव्याप्तिवारणाय विमिन्नाकारेति विजातीयानुपूर्वीक इत्यर्थः । तत्र च नानुपूर्वीभेदः । विभजते- स च 'शब्दस्य-' केवलं शब्दनिष्ठः । यथा
चकासत्यङ्गना रामाः कौतुकानन्दहेतवः।
तस राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥ पानास रमत इत्यङ्गना रामाः विरहशून्याः। कौतुकेन विवाहसूत्रेण यः मानन्दः । विधाः पण्डिताः सुमनसः । अत्रागनादिपदान्यखण्डान्येव ।
तथा शब्दार्थयोरयम् ॥ (का० ८६, च० पा) यथा-तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः।
तेजोधाम महःपृथुमहसामिन्द्रो हरिर्जिष्णुः ॥ अस्यार्थः-तनुः शरीरं कृशश्च । अजघन्यः अप्रमेयबलः। करिणो गजाः प्रशस्तशुण्डाश्च । [प०४६, १] रक्तं रुधिरं रक्तो वर्णविशेषनिष्ठश्च । तेजो बलविशेषः परोत्कर्षाक्षमता च । धाम तेजः स्थानं च । महस्तेजो बलविशेषश्च । हरिरिन्द्रः सिंहश्च । जिष्णुः कपीन्द्रो जयनशीलश्च । तनुवपुः कृशशरीरः । करिणां प्रशस्तशुण्डानां कुञ्जराणां रुधिरैः शोणितैः रक्ताः शोणाः खरास्तीक्ष्णा नखा यस्य । तेजसः परोत्कर्षाक्षमतायाः धाम स्थानम्, महो बलविशेषस्तेन पृथु प्रशस्तं मनो येषां तेषामिन्द्रः श्रेष्ठः । अत्रैकस्मिन् पदे तनुविरक्तेत्यादिरूपे परिवर्तिते नालहार इति शब्दालकारः । अपरस्मिन् वपुःकुञ्जरादिरुधिररूपे परिवर्तितेऽपि स न हीयत इत्यर्थनिष्ठः । इत्युभयालद्वारोऽयं शब्दार्थयोर्मध्ये कथितः ॥ ॥ इति पादशाह-श्रीअकब्बरसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगाणशिष्याष्टोत्तरशतावधानसाधनमहोपाध्यायश्रीसिद्धिचन्द्र
__ गणिविरचिते काव्यप्रकाशखण्डने नवम उक्लासः ॥
दशम उल्लासः । अथाालकारानाह - चारुत्वोत्कर्षात् प्रथमं उपमां लक्षयति ।
साधर्म्यमुपमा भेदे, (का० ८७, प्र० पा० ) समानौ धर्मों ययोः अर्थादुपमानोपमेययोः, तौ सधर्माणौ, तयोर्भावः साधर्म्यम् । समानधर्मनिरूपितः सम्बन्धः । स एव उपमा समासोचरभाववाचिप्रत्ययस्य संबन्धाभिधायकत्वात् । मद्वा समानैर्बहुभिर्धर्मैः संबन्धः साधर्म्यम् । वस्तुतस्तु तद्भिन्नत्वे सति तद्वतमयोधर्मवत्त्वमुपमेति निर्गलितार्थः । मेदशहणमनन्वयव्यवच्छेदाय ।
पूर्णा लुप्ता च,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148