________________
३०
काव्यप्रकाशखण्डन
कैलासालय भाललोचनरुचा निर्वर्तितालक्तकव्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्द्धाबन्धसमीहयेव सुदृढं रूढा यया नेत्रयोः
कान्तिः कोकनदानुकारसंरसा सद्यः समुत्सार्यते ॥
कैलासालयः शिवः, अत्र गिरिभुवः कोपवशात् नेत्रयोः शोणा कान्तिरासीत् सा पादप्रणते शिवेऽपगतेति ध्वनितम् । तत्रेदमुत्प्रेक्षते - स्पर्द्धाबन्धेति । रूढा उपचिता । अत्र भावस्य त्रायतामित्यवगतस्य कविनिष्ठस्य रसो महादेवनिष्ठा रतिः प्रणतिरवसेया । महादेवोऽपि यत्प्रसादनाय प्रणमति तत्र भक्तिरुचितेति रसस्य भावाङ्गता । एवं सर्वत्रा - ङ्गाङ्गिभावो बोध्यः ।
अनुरणनरूपस्य रसस्य वाच्याङ्गत्वं यथा
Jain Education International
-
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालंका भर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥
मया रामत्वं रामसादृश्यं आतं प्राप्तमित्यन्वयः । स्वपक्षे जनस्थानं नगर-ग्रामादि, रामपक्षे जनस्थानं खर-दूषणादिनिवासः दण्डकारण्यं वा । खपक्षे कनकविषया मृगतृष्णा निः फलाऽऽशा, रामपक्षे कनकमृगे सुवर्णमृगे तृष्णा च । वै निश्चितं देहि प्रयच्छ, रामपक्षे विदेहापत्यं स्त्री वैदेही सीता च । भर्तुः भरणकर्तुः । परिपाटीषु मुखविबलनाशमोनाऽनवधानादिषु का घटना न कृता तां वद । यद्वा [ १. १९.१ ] काभर्तुः कुत्सितभर्तुः । वदनपरिपाटीषु वचनभङ्गीषु, घटना योजना अलमत्यर्थेन न कृता । अलं व्यर्थ वा कस्य सुखस्याभर्तुर पोषकस्य श्रीचजनस्येत्यर्थः । लङ्काभर्तुः रावणस्य वदनानां परिपाठ्यां पङ्क्यां इषुघटना शरसंयो स्वपक्षे कुशलं प्रचुरं वसु धनं यस्य एवंभूतता । कुश-लवौ सुतौ यस्याः सा स | ' अत्र प्रकृताप्रकृतयोः कवि-रामयोः साम्यं व्यञ्जनया बोध्यते । अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सह उपमानोपमेयभावो मयेत्यादिना वाच्याङ्गतां नीतः । शब्दानां परिवृत्त्य सहिष्णुत्वेन शब्दशक्तिमूलता । वाच्यस्य मयाप्तं रामत्वस्य । अन्यत्रान्यतादात्म्यारोपरूपस्यातिशयोक्तिरूपस्य अङ्गतां उत्कर्षतां नीतः । मयाप्तं रामत्वं इत्यभिधाय कविनेति शेषः । तदनुक्तावुपमाध्वनित्वानपायः स्यात् । अयमर्थः - सदृशे तत्त्वारोपस्य चमत्कारित्वात् वाच्यस्य तत्त्वारोपस्य प्रतीयमानं वसाम्यनुत्कर्षक मित्यपराङ्गता । ननु कुतो रामत्वं प्राप्तमित्याकाङ्क्षाया निवर्त्तकस्य साम्यस्य वाच्यसिद्ध्यङ्गत्वमेव नापराङ्गत्वम् ? इति चेत् न । जनस्थानभ्रमणादिरूप साम्यस्य शब्दशक्तिमूलव्यज्यतः प्रागेवावगतौ रामत्वारोपरूपवाच्यस्य सिद्धत्वात् । अङ्गरूपोपमायां तु जनस्थान इत्यादिशब्द एव सादृश्यम् ।
"
For Private & Personal Use Only
www.jainelibrary.org