________________
२९
पशम उल्लास । लेपनासंभवात् लिप्तेति पदे व्यापने लक्षणा, सुहृदामित्यत्राचेतमस्य मित्रत्वाभावात् सुहृदामित्यनेन परितोषकारित्वं लक्ष्यते । तदतिशयौ च व्यन्यौ लेपन-सुहृत्त्वयोः सर्वथान्वयाप्रवेशात वाच्ययोरत्यन्ततिरस्कारः । एवं चात्र अत्यन्ततिरस्कृतवाच्ययोापनातिशय. परितोषकारित्वातिशयध्वन्योः संसृष्टिः । आभ्यां सह रामोऽसीति अर्थान्तरे कष्टजीवित्वरूपे समितवाच्यस्य, एतादृशि वैयग्र्यहेतुसंपातेऽपि जीवित्वरूपदुःखसहनातिशयध्वन्योः, अनुमाद्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन वा अर्थान्तरसङ्कमितवाच्यस्य दुःखसहनातिशयध्वनेः रसध्वनेश्च सङ्करः । एवमन्यदप्युदाहार्यम् ॥ ,
॥ इति पादशाहश्रीअकम्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापक. महोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त-षु (खु)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते
काव्यप्रकाशष(ख)ण्डने चतुर्थ उल्लासः ॥
पञ्चम उल्लासः। अर्थ प्राचोक्तगुणीभूतव्यङ्ग्यभेदानाह -
अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
सन्दिग्धतुल्यप्राधान्ये काकाऽऽक्षिप्तमसुन्दरम् ॥ (मू० का० ४५) • व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदाः स्मृताः। (मू का० ४६, पृ० )
एषां खरूपं लक्ष्येषु वक्ष्यामः । कामिनीकुचकलशतया गूढं चमत्करोति, अगूढ तु स्फुटतया प्रतीयमानमिति गुणीभूतमेव । यथा
राजर्षिवंशसूनोर्मे मर्कटद्वारसेवनात् ।
जीवन्तमपि मां ब्रह्मन् ! मृतमित्यवधारय ॥' अत्र मरणमेव श्रेय इत्यनुतापातिशयो व्यङ्ग्यः सर्वजनवेद्यस्वादगूढ एव । अपरस्य रसादेः, रसादिः अहं उत्कर्षकं तथा वाच्यस्य [प० १८.२ ] अनुरणनरूपमङ्गम् । केचित् तु वाच्यस्व रसादिरमित्याहुः । लक्ष्यदर्शने विशिष्टं विवेचयिष्यामः । यथा
.. अयं स रशनोत्कर्षी पीनस्तनविमर्दनः ।
नाभ्यूरुजघनस्पर्शी नीवीविप्रेसनः करः॥ अत्र शृङ्गारः करुणस्योत्कर्षकः । तथा हि - एतत् समरपतितं भूरिश्रवसो हस्तमालोक्य तद्वधरभिदधौ । तथा च शृङ्गारोचितरसनाकर्षणादिविलासस्मरणविगलद्हृदयत्वात् शोकवेगमधिकमुपजनयति ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org