________________
२८
काव्यप्रकाशखण्डन
•
एवं भूमिमिति न तु भूमाविति । न हि बुद्धिपूर्व किञ्चिल्लि [ख]ति । अधिकरणताsभिधाने आकाङ्क्षस्य कर्मण उद्देश्यत्वं प्रतीयेत, न च तथेति । 'रमणीयः क्षत्रियकुमार आसीत् ।
इत्यतीतकालोपदेशात् स्थितेर्वर्तमानत्व- भविष्यत्वव्यवच्छेदो गम्यते । एषा हि दाशरथिं प्रति कुपितस्य भार्गवस्योक्तिः । यथा वा -
रामोsसौ भुवनेषु विक्रमगुणैः [ ५.१७. २] प्राप्तः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद् यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद् यस्यैकवाणाहतिश्रेणीभूतविशालशालविवरोद्गीर्णैः खरैः सप्तभिः ॥
अत्रासावित्यनेन निरन्तरभावनावशेन प्रत्यक्षायमाणत्वम्, भुवनेषु इति बहुवचनेन न यत्र क्वचिदिति, गुणैरित्यनेन दोषव्यवच्छेदो व्यज्यते । तथा न त्वदिति न मदिति अपि तु अस्मदिति सर्वाक्षेपकत्वम् । एवं अभाग्यादिति वक्तव्ये भाग्यविपर्ययादित्युक्तम् । तेन अभाग्याभावेऽपि भाग्यान्येव तत्त्वेन परिणतानीति प्रतीयते । तैस्तु निर्वेदशङ्का दैन्यविषादातिशयः पोष्यते । एवं रचना - वर्णयोर्व्यञ्जकत्वं वक्ष्यते । एते शुद्धभेदाः । एवं एतेषां ध्वनीनां संशयास्पदत्वेन, अनुग्राह्यानुग्राहकतया, एकव्यञ्जकानुप्रवेशेन चेति त्रिरूपेण संकरेण, परस्परनिरपेक्षया चैकप्रकारया संसृष्ट्या एकत्र काव्ये संसर्गरूपया अन्योऽन्ययोजनम् । यथा -
खणपाहुणिआ देअर जाआए [ सुहअ ] किं पि दे भणिआ । रुइ पलोहरवलही घरम्मि अणुणिजइ वराई ||
Jain Education International
[क्षणप्राघुणिका देवर जायया [ सुभग ] किमपि ते भणिता । रोदिति पश्चाद्भागवलभीगृहे अनुनीयतां वराकी ॥ ]
क्षणप्राघुणिका उत्सवादिथिः । पलोहरशब्दो देशभाषया गृहपश्चाद्वाची । अत्रानुनयः किं उपभोगलक्षणे अर्थान्तरे सङ्क्रमितः, किं अनुरणनन्यायेन उपभोग एव व्यजये व्यञ्जक इति संदेहः ।
स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना
वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु तथा ( दृढं ? ) कठोरहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥
S
वेल्लनं विलासखेलनम्, पयोदसुहृदां मयूराणाम्, काभं प्रभूतम्, दृढं बलवत्, सहे इत्युत्तमपुरुषैकवचनम् । भविष्यति जीविष्यतीत्यर्थः । खेदातिशये ह ह हे[ प १८.१ ]ति त्रयो निपाताः स्मृतिसंकल्पोपनीतां सीतां संबोध्याह - देवीति । अत्र वियतो निःस्पर्शस्य
For Private & Personal Use Only
www.jainelibrary.org