SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चतुर्थ उल्लास' -. रानावन्धस्य दिवा प्रभवतो गृध्रस्य पुरुषविवर्जनपरं वाक्यम् - आदित्योऽयं दिवा मूढाः स्नेहं कुरुत सांप्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥ अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात् कथं बालास्त्यजध्वमविशङ्किताः ॥ इति । निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं चेति प्रबन्ध एव व्यञ्जकतया प्रथते । अन्येऽपि खयमूह्याः । अपिशब्दात् पद-वाक्ययोः पदैकदेशरचनावर्णेष्वपि रसादयः । पदं द्विविधं सुबन्तं तिङन्तं च । एकदेशो धातुनामरूपः प्रकृतिविभागः, तिझ प. १५.१]सुपूरूपः प्रत्ययविभागः । यथा रइकेलिहिअनिवसनकरकिसलअरुद्धणअणर्जुअलस्स । रुदस्स तीअनअणं पव्वइपरिचुम्बिअंजअइ ॥ रतिकेलिहत निवसनकरकिशलयरुद्धनयनजु(यु)गलस्य । रुद्रस्य तृतीयनयनं पार्वत्याः परिचुम्बितं जयति ॥ उत्कर्षाश्रयो भवति, स च लोकोत्तररूपेण पिधानवत्तया । लोकोत्तरता च चमत्कारानुगुणतया रागातिशयहर्ष-लज्जासंपत्तिद्वारकरसातिशयपोषणात् । तच्च जयतिना साध्यत इति प्रकृतेर्व्यञ्जकत्वम् । नानो व्यञ्जकता यथा प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद् यावन यात्युन्मनाः । तावत् प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः॥ : अत्र पदानीति न तु द्वाराणि । तथा च द्वारादिव्यवच्छेदो व्यङ्ग्यः । स च संभोगसंचायॊत्सुक्योपोद्वलनद्वारा रसपरिपोषकृत् । तिङ्सुपो यथा लिखनास्ते भूमि बहिरवनतः प्राणदयितो __निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्व हसितपठितं पञ्जरशुकै ., स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ अत्र लिखन्निति न लिखतीति अपि तु प्रसादपर्यन्तं आस्ते । तथा च लिखनस्य न साध्यत्वम् । अप्राधान्यं अंबुद्धिमूर्वकत्वं व्यज्यते किन्तु प्रसादपर्यन्तायाः स्थितेरेव साध्यत्वम् । तथा आस्त इति न त्वासित इति । तेन स्थित्यतीतताविच्छेदो व्यङ्ग्यः । , "स्थितो' मु. पा० । २ भादों "रुद्धसोणणअण' इति पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy