________________
२६
काव्यप्रकाशेखण्डन
अत्रामान्तीत्यत्र महिलासहस्रभृतत्वं हेतु:, तनु (नू) करणे अमितत्वादिहेतुरिति हेत्वलङ्कारः । अत्र हेत्वलङ्कारेण प्रौढोक्तिमात्र निष्पन्नेन तनोस्तनु (नू ) करणेऽपि तव हृदये सा न वर्त्तत इति विशेषोक्तिर्ध्वन्यते ।
उभयशक्तिमूलध्वनिर्यथा -
अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारका तरला श्यामा सानन्दं न करोति कम् १ ॥
"
अक्षरार्थस्तु - श्यामा नायिका रात्रिश्व, चन्द्रः शशी कपूरं च सुवर्णं वा । 'चन्द्रः सुधांशुकर्पूरकम्पिल्लखर्ण वारिषु' इति विश्वः । तारका नक्षत्रं अक्षिकनीनिका च । यद्यपि शब्दशक्तिमूलेऽर्थस्य, अर्थशक्तिमूले शब्दस्य व्यञ्जकत्वं संभवतीति उभयशक्तिमूलत्वं सर्वत्रास्ति, तथापि तत्र गुणप्रधानभावेन । अत्र तु द्वयोरेव प्राधान्ये व्यञ्जकत्व - मिति उभयशक्तिमूलत्वम् । अयं निष्कर्षः - यत्र पदं परिवृत्यसहिष्णु तत्र पदप्राधान्यम्, अन्यत्रार्थप्राधान्यम् । [ प. १६.२ ] प्रकृते चन्द्रसमुद्दीपिततारका शब्दाः परिवृत्त्य सहिष्णवः, पदान्तरोपादानेऽपरार्थप्रत्ययो न स्यात् । अत एव एषां शब्दप्राधान्यम् । अन्ये न तथेति तेषां अर्थप्राधान्यम् । उभयोरेकत्र प्राधान्यादुभयशक्तिमूलत्वम् । अत्रेदमवधातव्यम् - यस्य यत्र काव्य सर्वस्वत्वमनुभूयते तत्र तस्य प्राधान्यम् । तथा चात्र रात्रिनायकयोरुपमानोपमानभावो व्यङ्ग्यः । अत्रेदमवधातव्यम् - अविवक्षितवाच्यप्रभृतयो यावन्तो ध्वनिभेदाः कथिताः ते सर्वे वाक्ये भवन्ति । उभयशक्तिमूलं विना पदे स्युरिति प्राञ्चः । सोऽपि पदे भवतीति नवीनाः । यत्र सर्वाणि पदानि समकक्षकतया व्यञ्जकानि प्रकृतार्थोपकारे पर्यवस्यन्ति तत्र वाक्यगतत्वेन व्यवहारः; यत्र त्वेकमेव प्राधान्येन व्यञ्जकं तत्र पदगतस्वेति वाक्य - पदगतत्वेन ध्वनीनां विवेकः ।
सत्र वाक्ये पूर्वमुदाहृताः । पदे किञ्चित् उदाह्रियते यथा बहवस्ते गुणा राजन्नेकस्तु सुमहान् गुणः । मित्राणि तव मित्राणि नान्यथा स्युः कदाचन ॥
एवं अन्यदपि स्वयं बोध्यम् ।
Jain Education International
प्रबन्धेऽप्यर्थशक्तिभूः । (मू० का० ४२, च० पा० ) अलं स्थित्वा श्मशानेऽस्मिन् गृध्र- गोमायुसङ्कुले । कङ्काल बहले घोरे सर्वप्राणिभयङ्करे || न चेह जीवितः कश्चित् प्रणिधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥ इति ।
१' उभयशक्तिमूलध्वनिरपि' । इति टिप्पणी । २ " कालधर्म" मु० पा० ।
-
For Private & Personal Use Only
www.jainelibrary.org