________________
पञ्चम उल्लास
वाच्यसिद्धयङ्गं यथा
गच्छाम्यच्युत ! दर्शनेन भवतः किं प्रीतिरुत्पद्यते
किं त्वेवं विजनस्थयोर्हतजनः संभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा
माश्लिष्यन् पुलकोत्कराश्चिततनुर्गोपी हरिः पातु वः॥ अच्युततन्नामकं अपरित्यक्तधैर्यं च । किं दर्शनेन अपि तु संभोगेन संभावयेति । अन्यथासंभावनमावश्यकं तत् किमित्यात्मानं वञ्चयाव इत्यर्था व्यङ्ग्याः । ते चम्मन्त्रणाद्यर्थस्योपपादकाः । अन्यथा आम[ प० १९.२ ]न्त्रणभङ्गिखरूपाज्ञानेन इत्यर्थानन्वयः स्यात् , इत्याह- अच्युतादि व्यायं आमन्त्रणेत्यादि वाच्यस्याङ्गमिति । . अस्फुटं यथा
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता ।
नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥ अत्रादृष्टो यथा न भवसि वियोगभयं च नोपपद्यते तथा कुर्याः- इति व्यङ्ग्यं झटिति सहृदयैरपि न प्रतीयते । नवीनास्तु अयं भेदः स्वबुद्धिमात्रकल्पित एव । इदं व्यङ्गथं व्ययान्तरवत् सहृदयैर्विलम्बेन प्रतीयते इत्यस्य शपथैरेव प्रत्याययितुं शक्यत्वात् । सन्दिग्धप्राधान्यं यथा
हरस्तु किश्चित् परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि । अत्र परिचुम्बितुमैच्छदिति व्यङ्ग्यम् ?, किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति सन्देहः। तुल्यप्राधान्यं यथा
ब्रामणातिक्रमत्यागो भवतामेव भूतये । .
जामदत्यस्तथा मित्रमन्यथा दुर्मनायते ॥ अत्र जामदम्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षयं करिष्यतीति व्यङ्ग्यस्य दण्डस्य, वाच्यस्य च सामरूपस्य समं प्राधान्यम् । तथा हि - भूत्युपदेशमित्रत्वाभिधानं सामवाच्यम् , उक्तरूपश्च व्यङ्गयो दण्डः । उभयोरप्यनर्थनिवारकत्वे तुल्यता । काकाक्षितं अथा
मनामि कौरवशतं समरे न कोपाद्
दुःशासनस्य रुधिरं न पिवाम्युरस्तः । संचूर्णयामि गदया न सुयोधनोरं “सन्धि करोतु भवतां नृपतिः पणेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org