Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 78
________________ सप्तम उल्लास . अत्र संहितां न करोमीति खेच्छया सकृदपि दोषः, प्रगृह्यादिहेतुके त्वसकृत् । । हतवृत्तम् - जातयतिभङ्गादिरसाननुगुणं च वृत्तम् । यथा अमृतममृतं का सन्देहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो __ वदतु यदिहान्यत् खादु स्यात् प्रियादशनच्छदात् ॥ अत्र हरिणीच्छन्दसि षष्ठे दशमे सप्तदशे यतिरुचिता । चतुर्थे तु पादे 'यविहान्यत्वादु स्थाद्' इति यतिभङ्गादश्रव्यम् । नन्वत्रेहान्यशब्दयोः सन्धौ ‘अन्तादिवच' इत्यन्तवद् भावाद् वा शब्दे यतियुक्तैव । तदुक्तम् - पूर्वान्तवत्स्वरः सन्धौ क्वचिदेवं परादिवत् । एष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ इति ॥ प्रयोगोऽपि स्थादस्थानोपगतयमुनासङ्गमेनाभिरामा । इति । तस्माञ्चिन्त्यमेतत् । यथा वा हा नृप ! हा बुध ! हा कविवन्धो ! विप्रसहस्रसमाश्रय ! देव!। मुग्धविदग्धसभान्तररत्न ! कासि गतः क वयं च तवैते ॥ हास्य[प० २४. १]व्यञ्जकमद्वृत्तम् । न्यूनपदं यथा त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ॥ अत्रापराधलवमपीति वाच्यम् । अधिकपदं यथा इदमनुचितमक्रमश्च पुंसां यदिह जरास्खपि मान्मथा विकाराः। यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावहति । अत्राकालाविरहः स्फुट एव दृषकताबीजम् । कथितपदं यथा अधिकरतलतल्पं कल्पितखापलीला परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148