Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 92
________________ सप्तम उल्लास इयं परिसमाप्यते रणकथाऽद्य दो शा. प० ३३. १लिना मपैतुरिपुकाननातिगुरुरद्य भारो भुवः ॥ अत्र शयितः प्रयत्नेन बोध्यसे इति विधेयम् । प्रबोध एव विधेयत्वविश्रान्तिरिति विधेयाविमर्शेऽन्तर्भावः । अनुवादायुक्तम्, यथा अरे रामाहस्ताभरण! भसलश्रेणिशरण ! ___ स्मरक्रीडाब्रीडास( श)मन ! विरहिप्राणदमन! । सरोहंसोत्तंस ! प्रचलदल नीलोत्पल सखे ! सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥ . विक्रमोर्वशीनाटकगतं पद्यमिदम् । नीलोत्पलं प्रति नाना सम्बोध्य उर्वशी केति प्रश्नः । अत्र विरहिणः पुरूरवसो मोहश्लथने विधेये विरहिप्राणदमनत्वेन अनुवादो नोचित इतीदमप्यनुचितार्थम् । तथा, त्यक्तपुनस्वीकृतः- त्यक्त उपसंहतैकदेशः पुनः स्वीकृतः पुनः प्रकाशितैकदेशः। यथा- 'लग्नं रागावृताञये त्यत्र विदितं तेऽस्त्वित्यनेन यावतोऽर्थाननिवेद्याननिवेद्येव मध्ये उपसंहराभिधानात् । तथा चात्र समाप्तपुनराते चावृत्तिकरपनमुत्थाप्याकाङ्कत्वमेव दूषकताबीजमित्येतयोरभेदो न्याय्यः। अश्लीलं यथा हन्तुमेव प्रवृसस्य स्तब्धस्य चिरवैरिणः (विवरैषिणः)। यथाऽऽशु जायते पातो न तथा पुनरुन्नतिः ॥ अत्र 'व्यञ्जनस्यापि प्रतीतिरिदमप्यनुचितार्थम् । 'अथेदानीं एते दोषाः क्वचिददोषा इत्याह - कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः। (मू० का० ५८) सन्निधानादिवोधार्थम् , यथा तस्याः कर्णावतंसेन जितं सर्वविभूषणम् । तथैव शोभतेऽत्यन्तमस्याः श्रवणकुण्डलम् ॥ अवतंसः कर्णाभरणमुच्यते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये तेन वर्णनीयोत्कर्षः प्रतीयते । खतो न भूषणान्तरजेतृत्वम् , अपि तु तत्कर्णसम्बन्धादिनेति पर्यवसानात् । अत्रावस्थितिप्रयोजनहेतुत्वान्न पुनरुक्तत्वम् । एवमन्यत्रापि । स्थितेष्वेतत् समर्थनम् ॥ (मू० का० ५८, ३० च०) न खलु कर्णावतंसादिपस्वत् जघनकाञ्चीत्यादि क्रियते । ख्यातर्थ निर्हेतोरदुष्टता, (मू० का० ५९, प्र० च०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148