Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
५६
काव्यप्रकाशखण्डन
पुंसः पुरुषस्य ध्वजः केतुः साधनान्तः सैन्यमध्ये उपसर्पन् गच्छन् विराजते शोभते । सम्बाधे जनसङ्कुले देशे करिहस्तेन शुण्डादण्डेन अन्तः सैन्यमध्ये विलोलिते विरलीकृते सतीत्येकत्रार्थः । अपरत्र च -
तर्जन्यनामिके श्लिष्टे मध्यम पृष्ठतस्तयोः । करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः ॥
इत्युक्तलक्षणेन करिहस्तेन अन्तर्योनिमध्ये प्रविश्य सम्बाधे योनिसङ्कोचे सति, विलोलिते विकाश ( स ) तां नीते सति, पुंसः पुरुषस्य ध्वजो लिङ्गं साधनान्तः योनिमध्ये विराजते शोभते इत्यर्थः ।
शमकथासु यथा
उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । दिन स्त्रीवणे सक्तिरकुमेः कस्य जायते ॥
अत्र वैराग्य हेतु घृणोत्पादनया जुगुप्सागुणः ।
निर्वाणवैरदहनाः प्रशमादरीणां निन्दन्तु पाण्डुतनयाः सह माधवेन । रक्ताः प्रसारितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥
पाण्डुतनयाः पाण्डवाः पञ्च, माधवेन कृष्णेन सह, नन्दन्तु आनन्दं प्राप्नुवन्तु । कीदृशाः ? अरीणां शत्रूणां दुर्योधनादीनां प्रशमात् कलहत्यागात्, पक्षे नाशात्, निर्वाणो नष्टो वैररूपो दहनोऽग्निर्येषां ते तथा । कुरुराजो धृतराष्ट्रः तस्य पुत्राः सभृत्याः स्वस्थाः सुखिनः, पक्षे स्वर्गस्था भवन्तु । कीदृशाः ? रक्ताऽनुरक्ता प्रसाचिताऽलंकृता भूर्यैः । दुर्योधनामङ्गलस्य नायकमङ्गलत्वेन गुणत्वम् ।
सन्दिग्धमपि राज्ञो महिमा वर्णनीय इति नियमार्थप्रतिपत्तिकृतत्वेन व्याजस्तुतिपर्यवसानाद् गुणः । यथा
'कुभोजनं महाराज ! तवापि च ममापि च ।' इत्यादौ । अधमप्रकृतेर्विदूषका[ प. ३५.१ ]देरुक्तिषु हास्यकारिषु ग्राम्यो गुणः । न्यूनपदं क्वचिद् गुणः, यथा
Jain Education International
www
गाढालिङ्गनवामनी कृतकुचप्रोद्भिनरोमोद्गमा
सान्द्र स्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा ।
मा मा मानद माऽति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ अत्र पीडयेति पदमनुपात्तं वक्याः हर्षसंमोहातिशयं प्रतिपादयन् गुणतामापद्यत । अध्याहारेण वाक्यार्थबोधविलम्बेऽपि प्रकृतरसपोषकत्वाद् । उक्तरूपा सा नारिका मम मनसि सुप्ता वा, निश्चलत्वेन वर्त्तमानत्वात् । सुप्तस्य श्वासादिकमनुभूयत इत्यत आह- मृत्ता नु किम् ? | मृताऽपि
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148