Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 93
________________ ५४ पथा चन्द्रं गता पद्म १० ३३.२] गुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ लक्ष्मीः शोभा चन्द्रं चन्द्रमण्डलं गता प्राप्ता सती पद्मगुणान् कमलगुणान् सौरभादीन् न भुङ्क्ते न प्राप्नोति । रात्रौ कमलप्रकाशाभावात् पद्माश्रिता कमलाश्रिता चान्द्रमसी चन्द्रसम्बन्धिनीं अभिख्यां शोभां न भुङ्क्ते । उमामुखं प्रतिपद्य प्राप्य द्विसंश्रयां पद्मचन्द्रोभयाश्रयां प्रीतिं अवाप प्राप्तवतीत्यर्थः । अत्र रात्रौ पद्मस्य सङ्कोचो दिवा चन्द्रस्य निष्प्रभत्वं लोकप्रसिद्धमिति न भुङ्क्ते इति हेतुं नापेक्षते । श्रुतिकटुप्रभृतीनां दोषाणामदोषता । यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् । पश्यैष च गवित्याह सुत्रामाणं यजेति च । अयं जनः मृगचक्षुषं हरिणनयनं अद्राक्षम् दृष्टवानस्मि इत्यादि कथयति वदति इति श्रुतिकटु । एष जनं गविति गो इति शब्दः आह वदतीति पश्यावलोकय इति च्युतसंस्कृत्युदाहरणम् । सुत्रामाणं इन्द्रं जयेति ( बजेति ) च आहेत्यनुषज्यते । अप्रयुक्तमिदम् । वक्त्राद्यौचित्यवशाद् दोषोऽपि गुणः कचित् कचिन्नोभो ॥ ( मू० का ० ५९, उ० ) वाच्यवशाद् यथा - काव्यप्रकाशखण्डन वैयाकरणप्रतिपाद्ये वक्तरि वा वीरादौ रसे च कष्टत्वं गुणः । क्रमेणोदा० दीधीवेवीसमः कश्चिद् गुण वृद्धयोरभाजनम् । क्विप्प्रत्ययनिभः कश्चित् यत्र संनिहिते न ते ॥ अत्र वैयाकरणो वक्ता, अतो अतिशयेन वैयाकरणप्रतीतेर्गुणत्वम् । यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च पाप ( संम १ ) दम् ॥ अत्र वैयाकरणे प्रतिपाचे कष्टत्वं गुणः । तेन तस्य प्रतीत्यतिशयात् । रौद्ररसे यथा - प्रागुदाहृते 'मूर्ध्नामुद्द्त्तकृते' त्यादौ, 'उत्कृत्योत्कृत्ये 'त्यादौ चोत्कर्षवर्णा ओजो व्यञ्जयन्तः प्रकृतवीर - बीभत्सयोरानुगुण्यमदधत । अनुकरणे तु सर्वेषाम् । ( मू० का० ५९, द्वि० च० ) प्रकरणबशाद् यथा Jain Education International www.w गर्जघनघटाटोपे हरौ हुङ्कारकारिणि । किमन्यैरपि दुर्दान्ताः सीदन्ति सुरदन्तिनः ॥ अत्र सिंहे वाच्ये [प० ३४.१ ] परुषाः शब्दाः गुणाः । ― For Private & Personal Use Only 91 www.jainelibrary.org

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148