________________
५४
पथा
चन्द्रं गता पद्म १० ३३.२] गुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
लक्ष्मीः शोभा चन्द्रं चन्द्रमण्डलं गता प्राप्ता सती पद्मगुणान् कमलगुणान् सौरभादीन् न भुङ्क्ते न प्राप्नोति । रात्रौ कमलप्रकाशाभावात् पद्माश्रिता कमलाश्रिता चान्द्रमसी चन्द्रसम्बन्धिनीं अभिख्यां शोभां न भुङ्क्ते । उमामुखं प्रतिपद्य प्राप्य द्विसंश्रयां पद्मचन्द्रोभयाश्रयां प्रीतिं अवाप प्राप्तवतीत्यर्थः । अत्र रात्रौ पद्मस्य सङ्कोचो दिवा चन्द्रस्य निष्प्रभत्वं लोकप्रसिद्धमिति न भुङ्क्ते इति हेतुं नापेक्षते ।
श्रुतिकटुप्रभृतीनां दोषाणामदोषता । यथा मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् । पश्यैष च गवित्याह सुत्रामाणं यजेति च ।
अयं जनः मृगचक्षुषं हरिणनयनं अद्राक्षम् दृष्टवानस्मि इत्यादि कथयति वदति इति श्रुतिकटु । एष जनं गविति गो इति शब्दः आह वदतीति पश्यावलोकय इति च्युतसंस्कृत्युदाहरणम् । सुत्रामाणं इन्द्रं जयेति ( बजेति ) च आहेत्यनुषज्यते । अप्रयुक्तमिदम् । वक्त्राद्यौचित्यवशाद् दोषोऽपि गुणः कचित् कचिन्नोभो ॥
( मू० का ० ५९, उ० )
वाच्यवशाद् यथा -
काव्यप्रकाशखण्डन
वैयाकरणप्रतिपाद्ये वक्तरि वा वीरादौ रसे च कष्टत्वं गुणः । क्रमेणोदा० दीधीवेवीसमः कश्चिद् गुण वृद्धयोरभाजनम् । क्विप्प्रत्ययनिभः कश्चित् यत्र संनिहिते न ते ॥
अत्र वैयाकरणो वक्ता, अतो अतिशयेन वैयाकरणप्रतीतेर्गुणत्वम् । यदा त्वामहमद्राक्षं पदविद्याविशारदम् ।
उपाध्यायं तदाऽस्मार्ष समस्प्राक्षं च पाप ( संम १ ) दम् ॥
अत्र वैयाकरणे प्रतिपाचे कष्टत्वं गुणः । तेन तस्य प्रतीत्यतिशयात् ।
रौद्ररसे यथा - प्रागुदाहृते 'मूर्ध्नामुद्द्त्तकृते' त्यादौ, 'उत्कृत्योत्कृत्ये 'त्यादौ चोत्कर्षवर्णा
ओजो व्यञ्जयन्तः प्रकृतवीर - बीभत्सयोरानुगुण्यमदधत ।
अनुकरणे तु सर्वेषाम् । ( मू० का० ५९, द्वि० च० )
प्रकरणबशाद् यथा
Jain Education International
www.w
गर्जघनघटाटोपे हरौ हुङ्कारकारिणि । किमन्यैरपि दुर्दान्ताः सीदन्ति सुरदन्तिनः ॥
अत्र सिंहे वाच्ये [प० ३४.१ ] परुषाः शब्दाः गुणाः ।
―
For Private & Personal Use Only
91
www.jainelibrary.org