________________
सप्तम उल्लास •
रक्ताशोक ! कृशोदरी क नु गता त्यक्त्वाऽनुरक्तं जनं नो वधैव चालयसि किं वाताभिभृतं शिरः ।
उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छदः
तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥
अत्र शिरोविधूननेन कुपितस्य वचसि विप्रलम्भेऽपि कष्टत्वं गुणः । कचिन्नीरसे कष्टत्वं न गुणो न दोषः । शृङ्गारवीरादिरसानामेकस्याप्यभावान्नापकर्षकं उत्कर्षकं च ।
यथा -
तद् गच्छ सिद्ध्यै कुरु देवकार्य अर्थोऽयमर्थान्तर लभ्य एव । अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ||
अप्रयुक्त निहतार्थो श्लेषादा न दुष्टौ श्लेषरूपालङ्कारकृतचारुत्व निर्वाहकत्वात् प्रतीतिमान्थर्यस्यादोषत्वात् । यथा -
५५
येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्वीकृतो यवोद्वृत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात् स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥
अत्र माधवपक्षे - शशिमदन्धकक्षय कर शब्दावप्रयुक्तनिहतार्थो । ध्वस्तकामेन अथ च अभवेन संसारातीतेन येन अनः शकटं 'अनो मातरि शकटे च' । ध्वस्तं भग्नम्, बर्लिंजिद् विष्णुस्तस्य कायः शरीरं पुरा त्रिपुरदाहे अस्त्रीकृतः अस्त्रभावं प्रापितः । अथ च बलिजेता देहः पुराऽमृतपानावसरे स्त्रीत्वं प्रापितः । यश्चोद्धतानां सर्पाणां हारों वलयानि च यस्य तादृशः । अथ चोद्धतभुजङ्गः कालीयस्तस्य हन्ता ताडयिता । रवे वाचि वेदाख्येयो गुप्तिर्यस्य स तथा । यश्च गङ्गां देवनदीं धारितवान् । अथ च यः अगं पर्वतं गोवर्द्धनं गां सुरभिं भुवं वा दधार । यस्यामराः चन्द्रयुक्तमस्तके हर इति स्तुत्यं नामाहुः । अथ च शशिनं मनाति शशिमत् राहुः, तस्य शिरश्छेतेति नामाहुः । कीदृग् ? अन्धकदैत्यनाशकृत् । अथ च अन्धं अगाधं कं उदकं यस्य तादृक् समुद्रः; अन्धका यादवा वा, तत्र क्षयं वासं करोति । सर्वदा उमा पार्वती तस्या [प. ३४.२ ] धवः पतिः । अथ च सर्वं ददाति तादृशे माया लक्ष्म्या धव इति । हर माधवपक्षयोर्यथाक्रमं योजना । अत्र शशिमत्पदं राहावप्रयुक्तं क्षयपदं च गृहे निहतार्थमिति कचित् ।
Jain Education International
अश्लीलं क्वचिद्गुणोऽयम् । यथा - सुरतारम्भगोष्ठ्यां 'द्वयथैः पदैः पिशुनयेच्च रहस्य वस्तु' इति कामशास्त्रस्थितौ -
I
•
करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते । उपसर्पन्ं ध्वजः पुंसः साधनान्तर्विराजते ॥
For Private & Personal Use Only
www.jainelibrary.org