SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ५६ काव्यप्रकाशखण्डन पुंसः पुरुषस्य ध्वजः केतुः साधनान्तः सैन्यमध्ये उपसर्पन् गच्छन् विराजते शोभते । सम्बाधे जनसङ्कुले देशे करिहस्तेन शुण्डादण्डेन अन्तः सैन्यमध्ये विलोलिते विरलीकृते सतीत्येकत्रार्थः । अपरत्र च - तर्जन्यनामिके श्लिष्टे मध्यम पृष्ठतस्तयोः । करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः ॥ इत्युक्तलक्षणेन करिहस्तेन अन्तर्योनिमध्ये प्रविश्य सम्बाधे योनिसङ्कोचे सति, विलोलिते विकाश ( स ) तां नीते सति, पुंसः पुरुषस्य ध्वजो लिङ्गं साधनान्तः योनिमध्ये विराजते शोभते इत्यर्थः । शमकथासु यथा उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे । दिन स्त्रीवणे सक्तिरकुमेः कस्य जायते ॥ अत्र वैराग्य हेतु घृणोत्पादनया जुगुप्सागुणः । निर्वाणवैरदहनाः प्रशमादरीणां निन्दन्तु पाण्डुतनयाः सह माधवेन । रक्ताः प्रसारितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥ पाण्डुतनयाः पाण्डवाः पञ्च, माधवेन कृष्णेन सह, नन्दन्तु आनन्दं प्राप्नुवन्तु । कीदृशाः ? अरीणां शत्रूणां दुर्योधनादीनां प्रशमात् कलहत्यागात्, पक्षे नाशात्, निर्वाणो नष्टो वैररूपो दहनोऽग्निर्येषां ते तथा । कुरुराजो धृतराष्ट्रः तस्य पुत्राः सभृत्याः स्वस्थाः सुखिनः, पक्षे स्वर्गस्था भवन्तु । कीदृशाः ? रक्ताऽनुरक्ता प्रसाचिताऽलंकृता भूर्यैः । दुर्योधनामङ्गलस्य नायकमङ्गलत्वेन गुणत्वम् । सन्दिग्धमपि राज्ञो महिमा वर्णनीय इति नियमार्थप्रतिपत्तिकृतत्वेन व्याजस्तुतिपर्यवसानाद् गुणः । यथा 'कुभोजनं महाराज ! तवापि च ममापि च ।' इत्यादौ । अधमप्रकृतेर्विदूषका[ प. ३५.१ ]देरुक्तिषु हास्यकारिषु ग्राम्यो गुणः । न्यूनपदं क्वचिद् गुणः, यथा Jain Education International www गाढालिङ्गनवामनी कृतकुचप्रोद्भिनरोमोद्गमा सान्द्र स्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माऽति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥ अत्र पीडयेति पदमनुपात्तं वक्याः हर्षसंमोहातिशयं प्रतिपादयन् गुणतामापद्यत । अध्याहारेण वाक्यार्थबोधविलम्बेऽपि प्रकृतरसपोषकत्वाद् । उक्तरूपा सा नारिका मम मनसि सुप्ता वा, निश्चलत्वेन वर्त्तमानत्वात् । सुप्तस्य श्वासादिकमनुभूयत इत्यत आह- मृत्ता नु किम् ? | मृताऽपि For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy