________________
सप्तम उल्लास . 'बहिरनुभूयत इत्यत आह-लीनेति, जतुकाष्ठादिवदिति शेषः। तथाभूतस्यापि विघटन कर्तुं शक्यत इत्यतः विलीचा नु किमिति ? नीरक्षीरवदिति शेषः । कीदृशी? गाढालिङ्गनेन दृढपरी(रि सम्मेण बामनीकृतौ भुमौ कृतौ कुचौ यस्याः सा चासौ, प्रोद्भिन्नः प्रव्यक्तरोमोद्गमः पुलको यस्याः सा। तथा सान्द्रो निबिडो यः स्नेहः प्रीतिः रसः शृङ्गारस्तयोरतिरेकेनाधिक्येन विगलद् दूरीभवत् श्रीमतः शोभावतो नितम्बस्याम्बरं वस्त्रं यस्याः सा । हे मानद ! मानखण्डक ! मानप्रद ! वा मां अलं अतिशयेन मा मा माऽतिपीडयेति शेषः। इत्यनेन प्रकारेण क्षामाक्षरस्य न्यूनशब्दस्य उल्लापिनी कथयित्रीत्यर्थः ।
क्वचिन्न गुणो न दोषः, यथा.. तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घ न सा कुप्यति ।'
इत्यादौ पिहितेत्यनन्तरं नैतद् यत इत्येतैन्यूनपदैः विशेषबुद्धेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वी बाधत इति न दोषः । अधिकपदं कचिद् गुणः, यथा
वद वद जितः स शत्रुन हतो जल्पश्च तव तवासीति । . चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥ इत्येवमादौ हर्षभयादियुक्ते वक्तरि हर्षादिपोषकत्वात् ।
कचित् कथितपदं गुणः, लाटानुप्रासे अर्थान्तरसङ्क्रमितवाच्ये विहितस्यानुवाद्ये च । क्रमेणोदाहरणानि [प. ३५.२]
यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ।
यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥ 'यस्य मित्राणि मित्राणि' इत्यादौ ।
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षों विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः॥ जितेन्द्रियत्वं इन्द्रियजयः विनीततायाः कारणं निदानम् । विनयाद् गुणानां प्रकर्षः उत्कर्षोऽवाप्यते प्राप्यते । गुणाधिके गुणैरधिके उत्कृष्टे पुंसि पुरुषे जनो लोकोऽनुरज्यते अनुरको भवति । जनानुराग एव प्रभवः उत्पत्तिर्यासां तास्तथा संपदो विभूतयः इति त्रिषु, लाटानुप्रासादित्रयसंपादकत्वात् । पतत्प्रकर्ष कचिद्गुणो यथा
प्रागप्राप्तनिशुम्भशाम्भवधनुढेधाविधाविर्भवत्
क्रोधप्रेरितभीमभार्गव जस्तम्भापविद्धः क्षणात् । उज्वालः परसुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि
फैनन्नेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥
का० प्र.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org