________________
५८
काव्यप्रकाशखण्डन .अत्र चतुर्थपादे गुरुस्मरणेन क्रोधाभावात् मसृणवर्णत्वमेवोचितमिति तस्यादोषत्वमिति । विनयप्रकाशकत्वाच्च गुणत्वम् ।।
समाप्तपुनरात्तं कचिन्न गुणो न दोषः । यत्र न विशेषापादनार्थ पुनर्ग्रहणं अपि तु वाक्यान्तरमेव क्रियते । यथाऽत्रैव 'प्रागप्राप्त०' इत्यादौ ।
अपदस्थसमासं क्वचिद्गुणः । उदाहृते 'रक्ताशोक' इत्यादौ, 'नो दृष्टा' इति क्रोधोक्तौ दीर्घसमासकरणात् स्थानौचित्यविवेचनाभावेन क्रोधोन्मादपरिपुष्टिः । अथ प्राचीनोक्तरसदोषानाह -
व्यभिचारिरसस्थायिभावानां शब्दवाच्यता। कष्टकल्पनया व्यक्तिरनुभाव-विभावयोः ॥ (मू० का०६०) प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः । अकाण्डे प्रथनच्छेदौ अङ्गस्याप्यतिविस्तृतिः ॥ (मू० का०६१) अङ्गिनोऽननुसन्धान प्रकृतीनां विपर्ययः॥
अनङ्गस्याभिधानं तु रसे दोषाः स्युरीदृशाः॥ (मू० का• ६२) व्यभिचार्यादीनां खशब्दोपादाने यथाक्रमं भावध्वनित्वं चमत्कारित्वं रसत्वं च न स्यात् । व्यञ्जितानामेव [५० ३६. १] व्यभिचार्यादीनां तत्तद्रूपत्वात् । अत एवोक्तम् 'व्यभिचारी तथाञ्जितो भावः प्रोक्त' इति । तथा 'अभिव्यक्तश्चमत्कारकारी शृङ्गारादिको रस इति, एवं 'व्यक्तः स तैरित्यादि च । एवं सति एतेषां प्रधानकाव्यत्वं भवति । तत् सर्वे व्यञ्जनामाहात्म्यम् । तत्र प्रमाणं तु सहृदयहृदयमेव । व्यभिचारिणः खशब्देनोपादानं यथा
सब्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे . सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेा जह्वसुतावलोकन विधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः॥ पार्वत्या भवान्या दृष्टिनेनं वो युष्माकं शिवाय कल्याणाय अस्तु भवतु । कीदृशी ! दयितस्य शिवस्यानने मुखे सव्रीडा सलज्जा; मातङ्गस्य हस्तिनो यचर्म अजिनं तदेव यदम्बरं वस्त्रं तत्र सकरुणा सदया; भुजगे पत्युभूषणसर्पे सत्रासा सभया: अमृतस्यन्दिनि अमृतवर्षिणि चन्द्रे पत्युर्ललाटस्थितार्द्धचन्द्रे सविस्मयरसा अद्भुतरससहिता; जडुसुताया गङ्गाया अवलोकनविधौ दर्शनक्रियायां सेा ईर्ष्या विशिष्टा; कपालानां भर्ना धृतानां उदरे मध्ये दीना दुःखिता; नवसङ्गमे नूतनसमागमे प्रणयिनी प्रीमतीत्यर्थः । अत्र व्रीडादीनां शब्दवाच्यता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org