________________
सप्तम उल्लास . व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे
सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि ।
मीलद्भः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे, इत्यादि युक्तम् । एवं कृते ब्रीडादिव्यङ्ग्यतासिद्धेः । एवं रसस्य रसशब्देन शृङ्गारादिशब्देन वाच्यत्वम् । क्रमेणोदा०
तामनङ्गजयमङ्गलश्रिय किञ्चिदुच्चभुजमूललोकिताम् ।
नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ।। तां नायिका नेत्रयोर्लोचनयोर्गोचरे विषये कृतवतः अस्य पुरुषस्य कोऽप्यनिर्वचनीयो रसः निरन्तरः अनुस्यूतः अजायत उत्पत्तिमगात् । तां किहशीम् ? अनङ्गस्य कामस्य [प० ३६.२ ] ज़यार्थ यन्मङ्गलं तस्य श्रीः शोभा किञ्चिदीपदुचं यद्भुजयो होर्मूलं तत्र लोकितां दृष्टामित्यर्थः।
'आलोक्य' इति । एष नायकः शृङ्गारसीमनि शृङ्गारप्रथमप्रान्तभागे तरङ्गितं चाञ्चल्यं सलीलशृङ्गारं वा आतनोति विस्तारयति । कीदृशः ? बाल्यं शैशवं अतिवृत्य अतिक्राम्य विशेषेण वर्तमानः । किं कृत्वा ? अभिरामरूपां सुन्दररूपां आलोक्य दृष्ट्वा । कीदृशीम् ? कोमलयोः कपोलतलयोः अभिष(पि)क्तः संबद्धो व्यक्तः प्रकटो योऽनुरागः प्रणयस्तेन सुभगां शोभनामित्यर्थ ।
'संप्रहार' इति । तस्य राज्ञः प्रहरणैरस्त्रैः संप्रहारे सङ्ग्रामे कोऽप्यनिर्वचनीयः उत्साहः अभूजातः । कैः ? श्रुतिगतैः कर्णप्राप्तैः परस्परमन्योऽन्यं प्रहाराणां शस्त्रक्षेपरूपाणां झणत्कारैः शब्दविशेषैरित्यर्थः।
आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागसुभगामभिरामरूपाम् । पश्यैष बाल्यमतिवृत्य विवर्त्तमानः
शृङ्गारसीमनि तरङ्गितमातनोति ॥ एवं स्थायिनो यथा
संप्रहारे प्रहरणैः प्रहाराणां परस्परम् ।
झणत्कारैः श्रुतिगतैः उत्साहः तस्य कोऽप्यभूत् ॥ अत्रोत्साहस्य । तत्र नवीनाः प्रत्यवतिष्ठन्ते । व्यभिचार्यादीनां खशब्दवाच्यता न दोषाय किन्तु गुणायैव, तत्तदर्थानां शीघ्रोपस्थितिकत्वात् । अत एव महाकवीनां तथैवोपनिबन्धात् । यथा
दादुत्सुकमाति विचलितं संभाषिणि स्फारित
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्चितभ्रूलतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org