________________
काव्यप्रकाशखण्डन
मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्णक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि || उत्सुकमित्यौत्सुक्यस्य शब्दवाच्यता । यथा वा -
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्त्तमाना हिया
तैस्तैर्बन्धुवधूजनस्य वचनैनताऽऽभिमुख्यं पुनः । दृष्ट्वा वरमात्तसाध्वसरसा गौरी नवे सङ्गमे
संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥ [१० ३७.१]
उत्सुकतया कृता त्वरा यस्याः सा । ततो देहेन सहोत्पन्नया लज्जया हेतुभूतया अपसर्पन्ती तैस्तैः सखीनां वचनैः सन्निधिं नीता । अग्रे पतिं दृष्ट्वा गृहीतभयरसा प्रथमसङ्गमे उद्भूतरोमाञ्चा सहसा हसता वा हरेणालिङ्गिता गौरी पार्वती वः शिवाय भवत्वित्यर्थः । अत्रौत्सुक्यस्य । यथा वा
त्वमग्रतः सञ्चल चञ्चलाक्षि त्वमेव जीवेश्वर निस्सराये । इति ब्रुव वेश्मनि वह्निदीप्ते मिथोऽनुरागाद् मिथुनं विपन्नम् ॥ अत्रानुरागस्य । यथा वा
तृषितां हरिणीं हरिणः तृषितं हरिणं विजानती हरिणी । मितमम्बु पल्वलगतं कपटं पिबतः परस्परलोकम् ॥
अथ श्रीडाद्यनुभावैर्विचलितत्वाथैर्बीडादिवदौत्सुक्यानुभावैरौत्सुक्यादिकं झटिति प्रत्याययितुं न शक्यते इति, औत्सुक्यादीनां झटिति प्रत्ययार्थं खशब्दवाच्यतेति चेत्, न । एतस्यार्थस्य शपथेन प्रत्याययितुं शक्यत्वात् । अपि च सिद्धा व्यभिचार्यादीनां झटिति प्रत्ययाहेतुत्वात् स्वशब्दवाच्यता न दोषाय, किन्तु गुणायैवेति ।
'कष्टकल्पनए (ये ?) वे 'ति क्लिष्ट एवान्तर्भावः ।
'प्रतिकूलविभावादिग्रह' इति । यथा शृङ्गारादिकं प्रति प्रतिकूलस्य शान्तस्य विभावादेरुपादानं समूलमुन्मूलयतीति तदेव दूषकताबीजम् ।
'दीप्तिः पुनः पुनः ' - विच्छिद्य विच्छिद्य ग्रहणं वेद्यान्तरसम्बन्धेन रसादिविच्छेदो भवतीति तदेव दूषकताबीजम् । यथा कुमारसंभवे रतिविलापे ।
'अकाण्डे प्रथनम् ' यथा - वेणीसंहारे द्वितीयेऽङ्के बहूनां संक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णने ।
'अकाण्डे विच्छेदो' यथा - वीरचरिते राम- जामदम्ययोर्धारावाहिनि वीररसे कङ्कणमोचनाय गच्छामीति रामस्योक्तौ ।
Jain Education International
'अङ्गस्याप्रधानस्य अतिविस्तारेण' वर्णनं यथा - हयजीवबंधे हयग्रीवस्य । 'अङ्गिनो अननुसन्धानम्' यथा - रत्नावल्यां बाभ्रव्यागमेने सागरिकाया विस्मृतिः ।
[ १० ३७. २. ]
For Private & Personal Use Only
www.jainelibrary.org