________________
६१
सप्तम उल्लास , 'प्रकृतयश्च --दिव्या अदिव्या दिव्यादिव्याश्च । धीरोदात्त-धीरोद्धत-धीरललित-धीरशान्ता उत्तमाधममध्यमाश्च । तेषां लोकाशास्त्रातिक्रमेण अन्यथा वर्णनम् ।
'अनङ्गस्य' रसानुपकारकस्य अभिधानं कथनम् , यथा-कर्पूरमञ्जयाँ आत्मना नायिकया च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञः प्रशंसनम् । 'ईशा' इति, नायिकापादप्रहारादिना नायककोपवर्णनमिति । उक्तञ्च
'अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् ।
प्रसिख्यौचित्यबन्धस्तु रसस्योपनिषत् परा ॥ इति । इहेदानी कचिददोषा एते इत्याह - .. न दोषः खपदेनोक्तावपि सञ्चारिणः कचित् । (मू० का० ६३, पू०) यथा
प्रातः पुनः स्वादुदियाच भानोः पश्याम कोदण्डमनाततज्यम् ।
इत्युत्सुकस्तत्र स रामभद्रो निद्रादरिद्रो रजनीमनैषीत् ॥ अत्रोत्सुकशब्द इव तदनुभावो न तथाप्रतीतिकृदिति खशब्देनोपादानम् । यथा वा, 'दूरादुत्सुकमागते त्यादौ, 'औत्सुक्येन कृतत्वरा' इत्यादौ च । तदनुभावस्य सहसा प्रसारणांदिरूपस्य खशब्दस्येव तस्य झटिति प्रत्यायकत्वात् ।।
सश्चार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ (मू० का० ६३, उ०) बाध्यत्वेनोक्तिर्न परं दोषो यावत् प्रकृतरसपरिपोषकृत् । यथा 'क्काकार्य शशलक्ष्मण इत्यादौ । वितर्कमतिशङ्काधृतीनां शान्तसञ्चारिणां शृङ्गारपरिपन्थिनामपि बाध्यत्वेनोक्तेः शत्रुविजयपूर्वकराज्यलाभवत् प्रकर्षविशेषाधायकत्वेन तत्परिपोषकतानामुपमर्य चिन्तायामेव विश्रान्तेः । तेनात्र प्रतिकूलविभावादिग्रहो न दोषः, सञ्चार्यादेरित्यादिग्रहणात् । विरुद्धस्य विभावादेर्बाध्यत्वेनोक्तौ गुणावहत्वं यथा
सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः।
किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ रामाः स्त्रियः मनोरमाः सौन्दर्यवत्यः इति सत्यं यथार्थम् , विभूतयः संपत्तयः रम्याः शोभनाः इति [प. ३८. १] सत्यम् । किन्तु परन्तु जीवितं जीवनं मत्ता मदनेन मत्ता या अङ्गना स्त्री तस्याः अपाङ्गो नेत्रप्रान्तस्तस्य भङ्गस्तियक्त्वेन वीक्षणं तद्वत् लोलं चञ्चलमित्यर्थः । अत्र शहारविभावस्य शान्तविभावस्य जीवितास्थैर्यत्वस्य परस्परं विरुद्धत्वेऽपि शङ्गारविभावस्य बाध्यत्वेनाभिधानात् न दोषत्वम् , अपि तु गुणत्वं शान्तपरिपोषकत्वात् । सर्वा रामादयः सत्येव जीविते तदर्थमुपादेयाः, जीवितं वातिभङ्गुरमिति कृतमुपादेयत्वमेतेषाम् । अतो रम्यत्वेऽपि निष्फला एवेति पर्यवसानात् ।।
आश्रयैक्यविरुद्धो यः स कार्यों भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः॥ (मू० का० ६४ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org