________________
ફર
काव्यप्रकाशखण्डन
-वीर-भयानकयोर्नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यम् । यथा नागानन्दे शान्तस्य जीमूतवाहनस्य 'अहो गीतमहो वादित्रम् ' - इत्यद्भुतमन्तुर्निवेश्य मलयवतीं प्रति शृङ्गारो बद्धः । स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः ।
अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ ( मू० का० ६५ ) यथा - 'अयं स रस (श) नोत्कर्षी' इत्यादौ पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं पोषयति । 'साम्येने 'ति यथा -
सरागया श्रुतधनधर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्द्दशनविलङ्घितोष्ठया रुषा नृपाः प्रियतमए ( ये )व भेजिरे ॥ इत्यत्र शृङ्गार-रौद्रयोः साम्यविवक्षणाददोषत्वम् । 'अङ्गिन्यङ्गत्व' मिति यथा
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण आलिङ्गन् योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः ॥ सः प्रसिद्धप्रभावः शाम्भवः शम्भुसम्बन्धी शराग्निर्वाणाग्निः वो युष्माकं दुस्तिं पापं दहतु भस्मीकरोतु । क इव ? कामीव कामुक इव । कीदृश: ? आर्द्रापराधः - आर्द्रा नूतनोऽपराघो यस्य सः । शराः कामुकस्य च । [ १० ३८.२ ] विशेषणान्याह - हस्ते पाणाववलम: सम्बद्धः सन्, त्रिपुरयुवतिभिः त्रिपुरनामक दैत्यस्त्रीभिः क्षिप्तो दूरीकृतः । शरामेर्हस्तसंपर्के कामुकस्याप्यपराधक्षमापनाद्यर्थं करग्रहणे स्त्रीणां प्रक्षेपस्योचितत्वात् । प्रसभं हठात् अंशुकान्तं वस्त्रप्रान्तं आददानः सन् अभिहतो दूरीकृतस्तिरस्कृतश्च । वस्त्रप्रान्तेऽमेः संपर्केऽभिहतस्य सहसा कृतापराधेन नायकेन वस्त्रप्रान्तधारणे सति रुष्टया तदभिहननस्य न्याय्यत्वात् । केशेषु चिकुरेषु गृह्णन् स्पृशन् अपास्तः दूरीकृतोऽवज्ञातश्च । अभेः केशसंपर्के कृतापराधेन चुम्बनाद्यर्थं नायिका केशग्रहणे तया तदपासनस्य न्याय्यत्वात् । चरणयोः पादयोः पतितः सन्, संभ्रमेण नेक्षितो नावलोकितः । व्यासङ्गेन चरणतलपतितस्याः, प्रसादनाय च तत्रैव पतितस्य नाथकस्य क्रोधेनानवलोकनस्यो चितत्वात् । यः शराभिः कामुकश्च आलिङ्गन् ददत् (?) सन् अवधूतस्त्यक्तः । उभयोरप्यालिज्यमानयोस्त्यागस्योचितत्वात् । त्रिपुरयुवतिभिः कीदृशीभिः ? साखं सजलं नेत्रोत्पलं नेत्रात्मकनीलकमलं यासां ताभिरित्यर्थः । इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम्, तस्य तु शृङ्गारः, तस्यापि च करुणे विश्रान्तिरिति शृङ्गारपरिपोषितेन करुणेन मुख्य एवार्थ उपोद्बल्यते ॥
"
॥ इति पादशाह श्रीअकब्बर सूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जयतीर्थंकर मोचनाद्यनेक सुकृतविधापक महोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधान साधनप्रभुदित पादशाहश्रीअकब्बरप्रदत्त - खुस्फहा पराभिधानमहोपाध्याये सिद्धिचन्द्रगणिविरचिते काव्यप्रकाशखण्डने सप्तम उल्लासः ॥
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org