________________
अष्टम उल्लास ,
अष्टम उल्लासः। दोषानुक्त्वा गुणालङ्कारयोविवेकमाह -
ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः। उत्कर्षहेतवस्ते [प० ३९.१] स्युरचलस्थितयो गुणाः॥
(मू० का० ६६) अस्यार्थः- काव्ये प्राधान्येन स्थितस्य रसस्य ये धर्माः साक्षात् तदाश्रिता इत्यर्थः । तत्र दृष्टान्तः-आत्मनः एव शौर्यादयो गुणाः न शरीरस्य, तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् । ननु कथं तर्हि वामनादीनां वर्णगतत्वेन व्यवहार इति चेत् , उच्यते-समुचितैर्वर्णेय॑ज्यन्ते गुणा इति व्यङ्ग्यव्यञ्जकभावरूपपरम्परासम्बन्धेन वर्णगतत्वेन व्यवहियन्ते, न साक्षात् । यथाऽवच्छेदकतासम्बन्धेन शौर्यादयः शरीरे। अचलस्थितयो नियतावस्थितयः। नैयत्यं च रसेन तदुपकारेण च । तथा च ते रसं विना नावतिष्ठन्ते । अवस्थिताश्चावश्यमुपकुर्वन्ति । अत एव एतयोर्द्धर्मयोर्व्यतिरेकमलकारे वक्ष्यति । रसस्यावश्यं उपकारित्वे सति रसं विनावस्थितिशून्यत्वम् । गुणत्वमिति तु गुणलक्षणमित्यन्ये । नवीनास्तु रसोत्कर्षहेतुत्वे सति रसधर्मत्वं इत्याहुः । परे तु रसधर्मा गुणास्ते चोत्कर्षरूपाः । खव्याकस्य काव्यस्य उत्कर्षकाश्च । तदाह उत्कर्षहेतव इति । तेन दोषव्यवच्छेदः । उत्कर्षहेतुषु अलङ्कारादिषु अतिव्याप्तिवारणाय अचलस्थितय इति । अचला नियता स्थितिर्येषां ते । तथा रसविशेषनियतविशेषा रसधर्मा इत्यर्थः । शृङ्गारादौ माधुर्यस्य वीरादौ ओजसश्च नियतत्वात् । अलकाराणां च सर्वेषां सर्वरसोत्कर्षकत्वात् । ननु 'अयं स रशनो०' इत्यादौ अङ्गतां प्राप्तवति शृङ्गारे माधुर्यव्यचकवर्णविरहेण अव्याप्तिरित्यत अङ्गिन इति । अहिन्येव स्थितिनियमो नाङ्ग इति वदन्ति । अलङ्कारेषु उक्तगुणधर्मराहित्यं दर्शयितुं अलङ्कारखरूपमाह --
उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् ।
हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः॥ (मू० का० ६७) . ये वाच्य-वाचकलक्षणातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति तेऽलङ्काराः । तत्र दृष्टान्तः- कण्ठायकानां उत्कर्षाधानद्वारेण [प० ३९. २ ] शरीरिणोऽप्युपकारकाः, हारा इवेत्यर्थः । तेन अलङ्कारा रसं विना अवतिष्ठन्ते, अवश्यं च नोपकुर्वन्ति, न वा रसे साक्षादिति । किन्त्वङ्गद्वारेति गुणेभ्यो विलक्षणा एत इति ध्येयम् । यत्र तु नास्ति रसस्तत्र उक्तिमात्रवैचित्र्यपर्यवसायिनः । कचित् सन्तमपि नोपकुर्वन्ति ।
अपसारय घस्सारं कुरु हारं दूर एव किं कमलैः । अलमलमाल मृणालैरिति वदति दिवानिशं बाला ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org