________________
६४
काव्यप्रकाशखण्डन
• इत्यादौ अनुप्रासेन कोमलया वृत्त्या शब्दानां अलङ्करणद्वारा विप्रलम्भो रस उपक्रियते । तथा,
मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं
प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव ।
हिनस्ति प्रत्यङ्कं ज्वर इव गरीयानित इतो
न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥
अत्र वाच्यमुखेन मालारूपकेण तीत्रविषादित्वं मनोरागे प्रत्याय्य विप्रलम्भ उत्कृष्यते । उक्तिवैचित्र्यमात्रपर्यवसिता इति । उक्तिवैचित्र्यं शब्दानां सुश्रवत्वं बन्धकौशलत्वं च । अर्थानामी षन्मनोहारित्वं 'शीर्णघ्राणाद्विपाणि०' इत्यादौ सुप्रसिद्धमुदाहार्यम् ।
सतोऽप्यनुपकारित्वमुदाहरति, यथा
चित्ते चहुट्टदि न खुट्टति सा गुणेसु सेज ट्टदि विसकृति दिम्मुहेसुं । बोल्लम्म नदि पट्टदि कव्वबन्धे कण्णेन तुट्टदि चिरं तरुणी तरट्टी ॥
तरट्टी प्रशस्ता । अथ वा
Jain Education International
बालानां चुम्बनालिङ्गौ कबरीमोक्षबन्धने । कर्णकण्डूयनं स्त्रीणां तरट्टीलक्षणं स्मृतम् ॥
1
इति लक्षणेनात्या रूढमनोभवा नायिका तरट्टी द्रष्टव्या अत्र सन्तमपि रसे नोपकरोति ओजोव्यञ्जकस्य परुषानुप्रासस्य विप्रलम्भाननुकूलत्वात् । प्राकृतस्य ओजोगुणन्यञ्जकप्रघानत्वात् तदनुकूलत्वेनादोषत्वाच्च । तथा
मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति
ऋन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् । चत्राङ्केण वियोगिना विश ( स ) लता नाखादिता नोज्झिता,
वक्त्रे [ १० ४०.१ ] केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥
मित्रे सूर्ये सुहृदि च क्वापि कुत्रापि गते प्राप्ते सति कमलवने मुद्रिते अवचने च ताम्यति । निःश्रीके तप्यमाने च सति भृङ्गेषु तारखरेण शब्दायमानेषु रोदनवत्सु च पुरः अग्रे दयितासन्नां कान्तसमीपवर्त्तिनीं सारसीं दृष्ट्वा वियुक्तेन चक्रवाकेन मृणाललता न भक्षिता, न त्यक्ता नोज्झिता । केवलं निर्गच्छतो निःसरतो जीवस्य अर्गलेव परिघ इव वक्त्रे न्यस्तेत्यर्थः । अत्र विप्रलम्भे जीवापगमस्यैव वर्णनीयत्वे तत्प्रतिबन्धकवण सन्तमपि विप्रलम्भं उपमा नोपकरोति एष एव गुणालङ्कारविवेकः ।
1
For Private & Personal Use Only
www.jainelibrary.org