________________
मष्टम उल्लास. - इदानी गुणाना मेदानाह -
माधुयाँजाप्रसादाख्यास्त्रयस्ते न पुनर्दश ।
आहादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ (मू० का०६८) अर्थात् संभोगे । द्रुतिर्गलितत्वम् । इह हि सामाजिकानां चित्तेषु नवरसजन्याः तिसोडवस्थाः । द्रुतिः विस्तारो विकासश्च । तत्र भृङ्गारकरुणशान्तेभ्यो द्रुतिः, वीरबीभत्सरौद्रेभ्यो विस्तारः, हास्याद्भुतभयानकेभ्यो विकासः । येन हास्से वदनविकासः, अद्भुते नयनविकासः, भयानके द्रुतापसरणमिति । करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् ।
(मू• का० ६९, पू०) अत्यन्तद्रुतिहेतुत्वात् ।
दीत्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ (मू० का० ६९, उ०) चित्तस विखाररूपदीतत्वहेतुरोजः ।
. बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । (मू० का० ७०, पू०) वीरान बीभरसे ततोऽपि रौद्रे सातिशयमोजः । एवं हास्ये शृङ्गाराङ्गता(तया) माधुर्य प्रकृष्टविकासधर्मतया ओजोऽपि प्रकृष्टम् । एवमद्भुतेऽप्योजः । माधुर्यमप्यालादकरूपतया भयानकेऽप्येवमेव । माधुर्यममचिचवृत्तिखभाक्त्वेऽपि विभावस्य दीप्तरसतया ओजः प्रकृष्टं च । शुष्कन्धनादि(मि)वत् खच्छजलवत् सहसैव यः॥
(मू० का० ७०, उ.) ग्रामोत्सन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः।
___ (मू० का० ७१, पू०) अन्यदिति । व्याप्यमिह चित्तम् । यदा वीररसादिषु चित्तं व्याप्नोति तदा [प० ४०, २] शुष्कन्धनादि(मि)वत् । यदा शृङ्गारकरुणादिषु तदा खच्छजलवदिति । सर्वत्रेति सर्वेषु रसेषु सासु रचनासु । झटिति प्रत्या(ती)यमानत्वं रसेषु, झटिति प्रत्यायकत्वं रचनादिषु । ननु यदि तेन शब्दार्थयोस्तदा कथं लक्षणे सगुणावित्युक्तमिति चेत् , इत्यत आह -
गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ (मू० का० ७१, ३० ) गुणवृत्त्या उपचारेण व्यञ्जकत्वेन तद्वत्त्वमुपचर्यत इत्यर्थः । दशेति परोक्ताः। तदुक्तम् -
श्रेषः प्रसादः समता माधुर्य सुकुमारता । अर्थव्यक्तिरुदारवं ओजाकान्तिसमाधयः ।
इति वैदर्भमास प्राणा दशगुणा स्मृताः ॥ यामोसम्यत्' इति मु. पा.।
का० प्र०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org