________________
काव्यप्रकाशखण्डन तत्र श्लेषादीन् क्रमेणाह - बहूनां पदानां एकवद्भासनं श्लेषः । सन्धिसौष्ट(४)वादेकस्थानीयवर्णविन्यासात् । यथा
____ अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । .. -इत्यादौ । _ श्रुतिमात्रेण शब्दानां येनार्थप्रत्ययो भवेत् ।
साधारणः समग्राणां स प्रसादो गुणो मतः ॥ समग्राणा घटनादीनां यथा
इषु(क्षु)च्छायानिषादिन्यस्तस्य गोप्नुर्गुणोदयम् ।
आकुमारकथोद्भूतं शालिगोप्यो जगुर्यशः ॥ समता मार्गाभेदः । यया रीत्या उपक्रमस्तया समापनं [ मार्गा-भेदः । यथा--
अनगरङ्गप्रतिमं तदङ्ग भङ्गीभिरङ्गीकृतमानताझ्याः ।
कुर्वन्ति यूनां सहसा यथेमाः स्वान्तानि शान्तापरचिन्तनानि ॥ आनताझ्या नम्रशरीरायाः अझं शरीरं तथा भङ्गीभिरङ्गीकृतं खीकृतं यथा एता भन्नयः यूनां वान्तानि मनांसि शान्तापरः शृङ्गारः तच्चिन्तनानि तत्प्रवणानि कुर्वन्ति इत्यर्थः ।
पृथक्पदत्वं माधुर्यं सुश्रवत्वं वा । 'वैवखतो मनुर्नामे त्यादि । सुकुमारता परुषेतरवर्णशालित्वम् । यथा- 'अपसारय घनसार मित्यादौ । अर्थव्यक्तिः झटित्यर्थसमर्पणम् । यथा - 'इक्षुच्छाया' इत्यादौ । उदारता विकटत्वरूपा । विकटत्वं च पदानां विच्छेदात् नृत्यत्प्रायत्वम् । यथा
सुचरणविनिसृष्टै पुरैर्नर्तकीनां मणितरणितमासीत् तत्र चित्रं कलं च । ओजो [प० ४१. १] गाढबन्धत्वम् । उदाहरणम् – 'मूर्धामुदत्तकृत्ते' त्यादौ । कान्तिरौज्वल्यम् । हलिकादिसाधारणपदविन्यासपरित्यागेन लौकिकशोभाशालित्वम् । . यथा-कलक्कणितगर्भेण कण्ठेनाघूर्णितेक्षणः ।
__पारावतः परिभ्रम्य रिरंसुश्रुम्बति प्रियाम् ॥ आरोहावरोहरूपः समाधिः । आरोहो गाढता, अवरोहः शैथिल्यं तयोः क्रमः । क्रमेण तन्निबन्धः । यथा
चञ्चद्भुजभ्रमितचण्डगदाभिधातसंचूर्णितोल्युगलस्य सुयोधनस्य । . स्त्यानावनद्धधनशोणितशोणशोचिरुत्तंसयिष्यति कचास्तव देवि ! भीमः ॥ अत्र संचूर्णितान्ते आरोहः, सुयोधनान्ते अवरोहः । पुनतवान्ते पूर्वः, भीम इत्यन्ते परः ।
न पुनर्दशेति । एते श्लेषादयो न गुणाः । गुणा हि रसेंधा इत्यत्र प्रमाणाभावात् । एते शब्दगुणाः खीकार्याः रसोत्कर्षकत्वात् । ननु तथासति गुणालक्कारयोविभागोऽनुपपन्नः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org