________________
अष्टम उल्लास
६७
' इति चेत्, न । • काव्यशोभायाः कर्त्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्कारा इति विभागोपपत्तिः । एवं चेदर्थगुणा अपि स्वीकार्याः । तथा हि - क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषः । अस्यार्थः- - क्रमः क्रियापरम्परा, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनविरहः अनुस्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः । सः स (ख ?) रूपं यस्य (स्या) घटनायाः सश्लेषः । उदाह० दृष्कासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा
देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषतकन्धरः सपुलक प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥
एवं प्रसादोऽर्थवैमल्यं यावदर्थपदता । यथा काञ्चीपदं न तु काञ्चीगुणस्थानमिति । 'अत्र गुणपदस्याधिक्यात् ।
•
अवैषम्यरूपा समता क्रमाभेदः । यथा - - 'उदेति सविता ताम्र' इत्यादौ । माधुर्यमुक्तिवैचित्र्यम् । [१० ४१.२] एकस्यैवार्थस्य भङ्ग्यन्तरेण कथनं तदेव नवी - कृतत्वम् । यथा -
यदि दहत्यनिलो किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु. सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥
इत्यादौ स्वाभाविकत्वादिनाऽद्भुतम् । एवं 'किं तत एतयोरपि । अत्र स्वाभाविकत्वस्य भनान्तरेण कथनान्नवीकृतत्वम् ।
सुकुमारता अपारुष्यम् । अकाण्डे शोकादिदायिताभावः । यथा 'मृते यशःशेष' इति । यथा वा -
सारसवत्ता विहता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्त्तिशेषं गतवति भुवि विक्रमादित्ये ॥
Jain Education International
•
तथा वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः । वस्तुनः स्वभावस्य स्फुटत्वं वर्णनीयव्यक्तीकरणं यत्र रसाभिव्यक्तिकृतचारुत्वाय परं भवतीति शेषः । यथोदाहृते 'पारावतः परिभ्रम्ये' त्यादौ । स्वभावोक्तिस्तु अलङ्कारकृतचारुत्वाय परं भवतीति ततोऽस्य भेदः । उदारत्वं वाच्यतावैदग्धी । यथा -
'कामकन्दर्पचाण्डालो मयि वामाक्षि ! निर्दय' इत्यादौ । पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा ।
प्रौढिर्व्यास-समासौ च [ साभिप्रायत्वमस्य च ॥ ]
ओजः । क्रमेणोदा० 'द्र' इत्येकपदार्थे 'अत्रिनयनसमुत्थं ज्योति' रिति । द्वितीयं यथा - 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इति बहुपदार्थेषु अभिसारिकापदा
For Private & Personal Use Only
www.jainelibrary.org