________________
काव्यप्रकाशखण्डन भिकने । तथा एकवाक्यार्थस्थानेकशक्येन प्रतिपादनं व्यासः, तथाऽनेकवाक्वार्थस्य एकेन प्रतिपादनं समासः । क्रमेणोदा०
प्राप्ताः श्रियः सकलकामदुधास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किं ।
__कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ अत्र तत्त्वज्ञानं विना सर्वमकिञ्चित्करमित्येकवाक्यार्थोऽनेकवाक्येन प्रपञ्चितः ।
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चासै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ॥ अत्र एकवाक्ये बहुवाक्यार्थनिबन्धात्मा समासः ।
अथ कान्तिः [प० ४२. १] दीप्तरसत्वरूपा । यत्र रसोद्दीपनैकहेतुत्वं चारुत्वेनालकारादिसंमिन्नम् । यथा 'यः कौमारहर' इत्यादौ ।
तथा अर्थदृष्टिरूपः समाधिः । अर्थश्च द्विविधः । अयोनिः, अन्यच्छायायोनिश्च । क्रमेणोदा०- 'सद्यो मुण्डितमत्तहूणचिबुकस्पर्द्धिष्णुनारङ्गक मित्यत्र । एवं नारनकवर्णनमन्येन [न ] कृतमित्ययोनिः । द्वितीयो यथा
निजनयनप्रतिविम्बैरम्बुनि बहुशः प्रतारिका कापि ।
नीलोत्पलेऽपि मृष्यति करमर्पयितुं कुसुमलावी ॥ अत्र वदनोत्पलयोः सादृश्यमन्येनापि वर्णितमित्यन्यच्छायायोनिः । इत्याखादहेतूना गुणानामपलापः कर्तुमयोग्यः प्रकाशकृतामिति नवीनाः। अथ रसधर्माणां माधुर्योजःप्रसादानां गुणानां व्यञ्जकान् वर्णान् आह
मूर्ध्नि वर्गान्त्यगा वर्णा अटवर्गा रणौ लघू । ___ अवृत्तिमध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ (मू० का० ७४) टठडढवर्जाः कादयो मान्ताः शिरसि निजनिजवर्गान्त्यवर्णयुक्ताः । यथा 'कुन्द' इत्यादि । तथा रणौ हखान्तरितौ । इति वर्णाः । अवृत्तिः समासाभावो मध्यमः समासो वेति । तथा माधुर्यवती पदान्तरयोगे(गेन ?) रचना माधुर्यस्य व्यञ्जिका इति शेषः । पदान्तरयोग इति यथा 'अलङ्कुरु' इत्यत्र पदयोः सन्धौ मधरवर्णोत्पत्तिः । यथा- 'अनापति तदङ्गमित्यादि।
'पाः ' इति पालः मु.पु.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org