________________
अष्टम उल्लास . योग आद्यतृतीयाभ्यामन्तरेण तृतीययोः।
टादिशे(श)षो वृत्तिये गुम्फ उद्धत ओजसि ॥ (का० ७५) चवर्गप्रथम-द्वितीयाभ्यां द्वितीय-चतुर्थयोर्योगः । रेफेणाध उपरि उभयत्र वा यस्य कस्यचितुल्ययोस्तेन तस्यैव सम्बन्धः । टवर्गों णकौरवर्जः, शकार-षकारी, दीर्घसमासः, विकटा घटना ओजसो व्यञ्जिका इत्यर्थः । यथा 'मू मुद्वृत्वकृत्ते'त्यादि ।। प्रसादव्यञ्जकानाह
श्रुतिमात्रेण शब्दानी येनार्थप्रत्ययो भवेत् । .
साधारण: समग्राणां स प्रसादो गुणः स्मृतः॥ (मू० का• ७६) समप्राणां रसानां समासानां घटनानां च । यथा
परि [५० ४२. २ ] म्लानं पीनस्तनजघनसङ्गादुभयतः ___ तनोर्मध्यस्यान्तःपरिमलनमप्राप्य हरितम् । इदं व्यस्तन्यस्तं श्लथभुजलताक्षेपचलनः
कृशायाः संतापं वदति नलिनीपत्रशयनम् ॥ कुशाव्याः कृशशरीरायाः संतापं विरहवेदनां बिसिनीपत्रस्य कमलिनीदलस्य इदं शयनं शय्या वदति कथयति । कीदृशम् ? पीनयोर्मासलयोः स्तनयोः जघनस्य नितम्बस्य सनात् संसर्गात् उभयतो भागद्वये ऊर्ध्वाधोरूपे परिम्लानं उच्छुष्कम् । पुनः कीदृशम् ? तनोर्मध्यस्य उदरभागस्य परिमिलनं संसर्गमप्राप्य अन्तर्मध्ये हरितं हरिद्वर्णम् । श्लथा या भुजलता तस्याः क्षेपो बुद्धिपूर्वकचालनम्, चलनं चाबुद्धिपूर्विका क्रिया, तैर्व्यस्तन्यासं विघटितसंनिवेशमित्यर्थः । यद्यपि गुणपरतन्त्रा घटनादयस्तथापि
वक्तृवाच्यप्रबन्धानामौचित्येन कचित् कचित् ।
रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ (मू. का. ७७) कचित् वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । क्वचित् वक्तृप्रवन्धानपेक्षया वाच्यौचित्याद् रचनादयः । उदाहरणं खयमूहनीयम् । एवं कचित् वक्तृवाच्यानपेक्षया प्रबन्धोचिता एव ते । तथा हि- आख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः । एवमन्यदौचित्यमनुसतव्यम् ॥ ॥ इति पादशाहश्रीअकन्चरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्याय-श्रीभानुचन्द्रगणिशिष्याष्टोत्तरशतावधानसाधनप्रमुदित पादशाहश्रीअकब्बर
प्रदत्त-षु (खु)स्फहमापराभिधानमहोपाध्याय-श्रीसिद्धिचन्द्रगणिविरचिते ' काव्यप्रकाशष (ख)ण्डने गुणनिर्णयो नाम अष्टम उल्लासः ॥
___ + मु. पु. एषः श्लोक ईदृक्पाठोरमको लभ्यते -
योग आद्यतृतीयाभ्यामन्त्ययो रेण तुल्ययोः।
टादिः शपी पत्तिदैर्ध्य गुम्फ उद्धत ओजसि ॥ 'शम्दातु' इति मु. मु. पाठा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org