________________
७०
काव्यप्रकाश खण्डन
नवम उल्लासः ।
अलङ्कारे विवेचनीये लक्षणशब्दस्य प्रागुपादाभात् तथैवाकाङ्क्षासत्त्वात् शब्दालङ्कारानादावाह
यदुक्तमन्यथा [१० ४३. १] वाक्यमन्यथाऽन्येन योज्यते । श्लेषेण काका वा ज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥
( मू० का ० ७८ ) वक्त-श्रोतृनिर्वाह्योऽयमलङ्कारः । अन्यथा अन्यप्रकारेण वक्तुरन्याभिप्रायकं वाक्यं श्रोत्रान्यथा समर्थितमित्यर्थः । अन्येनेति तेन खोक्तौ अन्यथाकरणे अपह्नुतौ नातिव्याप्तिः । श्लेषेण वक्तरविवक्षितेन शब्दस्य शक्यान्तरेण । तथा काका । तथा च श्लेषवक्रोक्तिः, काकुवक्रोक्तिचेति निर्गलितार्थः । क्रमेणोदाहरणम् -
अहो केनेशी बुद्धिर्दारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्नतु दारुमयी क्वचित् ॥
अस्यार्थः - : - दारुणा हिंसा काष्ठेन च । त्रिगुणा सत्त्वरजस्तमोमयी । अत्र दारुणत्वपदस्य दारुमयत्वेनान्यथा योजनम् ।
गुरुजनपरतत्रतया दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ॥
गुरुपरतन्त्रतया गुर्वाधीनतया बत कष्टे दूरतरं बहु दिवसगम्यं देशं जनपदं गन्तुं यातुं उद्यतः कृतोद्योगः वसन्तसमये असौ नायको नैष्यति नायास्यति । कीदृशे ? अलिकुलं भ्रमरसमूहः कोकिलः पिकः तेन ललिते सुन्दरे । सखीति सम्बोधनपदम् । नायिकया नैष्यतीति निषिद्धे, तत्सखी काका अन्यथयति - नैष्यति ? अपि तु एष्यत्येवेत्यर्थः । वर्णसाम्यमनुप्रासः, (का० ७९, प्र० पा० )
यमकेऽतिव्याप्तिवारणार्थमाह - खरवैसादृश्येऽपि व्यञ्जनसाम्यमनुप्रासः । अत्र खरसादृश्यं न प्रयोजकं कुलाल कलत्रमित्यादिष्वपि दर्शनात् । यमके तु समानानुपूर्वीकत्वं प्रयोजकम् । छेकवृत्तिगतो द्विधा । (, द्वि० पा० )
छेका विदग्धाः । वृत्तिर्मधुररसादिव्यञ्जिका तत्तदानुपूर्वी रूपा । गतो ज्ञातः । आभ्यामुपाधिभ्यामित्यर्थः । छेकानुप्रासो वृत्त्यनुप्रासश्चेति द्विधा ज्ञेयः । किं तयोः खरूपमित्याह - सोsनेकस्य सकृत्पूर्वः, (,,तृ० पा० )
Jain Education International
अनेकस्य अर्थाद् व्यञ्जनस्य सकृदेकवारं साम्यं छेकानुप्रासः । यथा ततोऽरुण परिस्पन्द मन्दीकृतवपुः (१० ४३. २) शशी । दधे कामपरिक्षामका मिनीगण्डपाण्डुताम् ॥
For Private & Personal Use Only
www
www.jainelibrary.org