________________
नवम उल्लास . ततस्तदनन्तरं शशी चन्द्रः कामेन कन्दर्पण परिक्षामा कृशा या कामिनी तस्या यो गण्डो गल्लात परप्रदेशस्तद्वत् पाण्डुतां पाण्डरवर्णतां दधे धृतवान् । कीदृशः? अरुणस्य सूर्यस्य परिस्पन्देनोदयेन मन्दीकृतं म्लानतां नीतं वपुः शरीरं यस्य सः । मन्द-स्पन्दीत्यत्र काम-कामिनीत्यत्र नकार-दकारयोः ककार-मकारयोरप्यनेकस्य सकृत् साम्यम् ।
एकस्याप्यसकृत्परः ॥ (का० ७९, च० पा०) अपिशब्दादनेकस्य व्यञ्जनस्य वा द्विबहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः । वृत्तिर्विभजते । तत्र
माधुर्यव्यञ्जकैर्वर्णैवैदर्भी रीतिरिष्यते ।
ओजःप्रकाशकैगौडी पाञ्चाली तैस्तथा परैः॥ (मू० का० ८०) सर्वत्र प्रागुदाहृतम् – 'अनङ्गरङ्गप्रतिम'मित्यादिना, 'मू मुद्वृत्तकृत्ये त्यादिना, 'अपसारय धनसार मित्यादिना च ।
____ शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः। (मू० का० ८१, उ० ) पूर्व तु वर्णानुप्रासो दर्शितः, अयं तु शब्दानुप्रासः । शाब्दः शब्दगतोऽनुप्रासः । शब्द्यते प्रकाश्यते अनेन । शाब्दश्च पदं प्रातिपदिकं च । लाटानुप्रासः पुनः शाब्दः शब्दगतो न वर्णगत इत्यर्थः । अतः च्छे कवृत्तिभ्यामस्य भेदः ।
पदानां सः, लाटानुप्रासः । प्रागुदाहृतम् 'यस्य न सविधे दयिते त्यादि ।
पदस्थापि; (का० ८२, प्र० पा०) उदा०
वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः ।
सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ।। तस्या वरवर्णिन्या उत्तमाङ्गनायाः वदनं मुखं सुधाकरश्चन्द्रः इति सत्यं यथार्थम् । पुनः सुधाकरः चन्द्रः कलङ्कविकलो लाञ्छनमलिनः तस्या वदनं क भवेन्न भवेदित्यर्थः।।
वृत्तावन्यत्र तत्र वा । (., द्वि० पा०) नानः स वृत्त्यवृत्त्योश्च, (,, तृ० पा० ) एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । प्रत्ययरहितस्यैव प्रातिपदिकत्वात् । यथा__मुद्रितपुस्तकेषु तु - "माधर्षव्यञ्जकैर्णरुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला परैः।"
एतादृशः पाठः पठ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org