________________
७२
काव्यप्रकाशखण्डन
सितकरकररुचिरविभा विभाकराकार धरणिधव कीर्त्तिः । पौरुषकमला कमला साऽपि तवैवास्ति नान्यस्य ॥
1
हे विभाकराकार सूर्य - ( प ० ४४, १ ) सदृश ! धरणेः पृथिव्या धव स्वामिन् ! तब कीर्तिः अस्ति वर्त्तते । कीदृशी ? सितकरश्चन्द्रस्तस्य करः किरणस्तद्वत् रुचिरा मनोहरा बिभा कान्तिर्यस्याः । पौरुर्षकमला पौरुषलक्ष्मीः, कमला लक्ष्मीः साऽपि प्रसिद्धा तवैवास्ति नान्यस्य पुंस इत्यर्थः ।
तदेवं पञ्चधा मतः ॥ (का० ८२, च० पा० )
लाटानुप्रासः ।
अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । (का० ८३, ५० ) यमकम्,
अर्थभिन्नानामित्येकार्थभिन्नानामित्यर्थः । तेन लाटानुप्रासे न प्रसङ्गः । उभयोरेकस्व वा निरर्थकत्वे संग्रहः । अत्र श्रुतिसाम्यं प्रयोजकम् । तेन वर्णभेदे श्रुत्येकत्वेऽपि यमकम् । यथा - 'समरसमरसोऽय' मित्यादेः, सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिततया । पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ (का० ८३, ३०)
पादः चतुर्थांशः, तद्भागस्तदर्द्ध- तदर्द्धादिरूपः । क्रमेणोदा० - यथाअचल एप विभर्ति निरन्तरं मृदुलतामहतीर सभावनम् । वहति चात्र वने युवतीगणो मृदुलतामहतीरसभावनम् ॥
यथा
w
यदानतोऽयदानतो नयात्ययं न यात्ययम् । शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥ तारतारतरैरेतैरुत्तरोत्तरतो रुतैः ।
रतार्त्ता तित्तिरी रौति तीरे तीरे तरौ तरौ ॥
एवं अर्द्धावृत्ति लोकावृत्तिभेदा द्रष्टव्याः ।
बाच्यभेदेन भिन्ना यद् युगपद्भाषणस्पृशः । लिष्यन्ति शब्दाः षोऽसौ [ अक्षरादिभिरष्टधा ॥ ]
(का० ८४ )
अर्थभेदेन शब्दभेद इति दर्शने काव्ये खरो न गण्यते, - इति च नये याच्यभेदेन भिन्ना अपि यद् युगपदुच्चारणेन श्लिष्यन्ति भिन्नं खरूपमपह्नुवते स श्लेषः । ननु अगृहीतभिन्नस्खरूपत्वं श्लेषणं दोषाद् भेदाग्रहे अयमलङ्कारस्तत्र को दोष इत्यत आहयुगपदिति । युगपद्भाषणमे कोचारणमेव तस्य स्पर्शस्तद्विषयत्वम्, तेरा च स एव दोष इत्यर्थः । तथा च शब्दानां मिथो भेदस्तत्रोच्चारणेन दोषेण न गृह्यत इति स श्लेषः । अर्थप्रतीत्य
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org