________________
नवम उल्लास .
७३ • नन्तरं गृह्यमाणस्तु • भेदौ न किञ्चित् कुरुत इति वाच्यभेद [ १० ४४, २ ] इति । वैयाकरणस्त्रिविधाः शब्दा भिद्यन्ते रूपतः, स्वरतः, अर्थतश्चेत्युच्यते । वाच्यः शब्दोच्चारणानन्तरं प्रत्येयो न त्वभिधेयः । तेन श्वेतो धावतीत्यत्र नाव्याप्तिः । अन्यथा श्वेतगुणवत् कुक्कुरसमीपदेशस्थयोरेकस्यापि वाच्यताविरहेण श्लेषो न स्यात् । गुणवति श्वेतशब्दस्य लाक्षणिकत्वात् अत्राभिधा, अनियन्त्रणेन व्यञ्जनावसरः । तस्मान्नानार्थेषु यत्र युगपत् प्रकरणादिकमवतरति तत्र श्लेषः, यत्र क्रमेण तत्रावृत्तिः, यत्रैकत्रैव तत्र व्यञ्जनेति व्यवस्थितिः । यथामहत्या गदया युक्तः सत्यभामासमन्वितः । भवान् वा भगवान् वाऽपि गतो भेदः परस्परम् ||
अयं सभङ्गश्लेषः । अभङ्गश्लेषो यथा
योऽसकृत परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटितां विभ्रद् विबुधेन्द्रः स राजते ॥
स विबुधेन्द्रः पण्डितश्रेष्ठः राजते शोभते । स कः ? यः असकृद् वारंवारं परगोत्राणां शत्रुसन्तानानां पक्षस्य बलस्य च्छेदे नाशे क्षणेनैव क्षमः समर्थः । छेदरूपे क्षणे उत्सवे क्षमो योग्य इति कश्चित् । शतकोटीर्ददातीति शतकोटिदस्तस्य भावस्तत्ता तां बिभ्रद् धारयन् । पक्षे - स विबुधेन्द्रो देवश्रेष्ठः इन्द्रो राजते शोभते । यः परगोत्राणां परे शत्रवो ये गां पृथिवीं त्रायन्त इति गोत्राः पर्वतास्तेषां पक्षस्य च्छेदः कर्त्तनं तेन यः क्षण उत्सवः तंत्र क्षमो योग्यः । शतकोटिना वज्रेण द्यति खण्डयतीति शतकोटिदस्तस्य भावः शतकोटिदता तां बिद् दधान इत्यर्थः । अत्र अभिधानियन्त्रणाभावात् द्वावप्यर्थो वाच्यौ । अयं शब्दश्लेषः । अत्र शब्दाः परिवृत्तिं न सहन्ते । यंत्र तु शब्दाः परिवृत्तिं सहन्ते सोऽर्थश्लेषः । यथा - स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
1
अहो सुसदृशी वृत्तिः तुलाकोटेः खलस्य च ॥
उन्नतिं ऊर्ध्वगतिं पक्षे आनन्दम्, अधोगतिं नम्रतां दुःखं च, अहो इत्याश्चर्ये । अत्र अस्पेनोद्रेकमायातीति पाठे भवति [ १०४५, १] श्लेषः । इत्यर्थश्लेषोऽयम् । एवम् -
'सकलकलं पुरमेतञ्जातं संप्रति सुधांशुविम्बमिव ।'
एतत्पुरं नगरं सकलकलं कलकलेन कोलाहलेन सहितं जातम् । किमिव : सुधांशुबिम्बमिव । तदपि कीदृश्चम् ? सकलाः समस्ताः कलाः चन्द्रकला यत्र तादृशं संपूर्णमित्यर्थः । इत्यादौ श्लेषप्रतिभा हेतुरूपमा, न तु उपमाप्रतिभोत्पत्तिहेतुः श्लेषः । यतः श्लेषस्यैव साम्यनिर्वाहकता, न तु साम्यस्य श्लेषनिर्वाहकता । श्लेषबन्धतः प्राक् साम्यस्य अनुपस्थितेः । अत्र सकलकल एव साधारणो धर्मः । अथवा संकलकलत्वयोरे कशब्दवाच्यत्वेन साजात्यमित्यर्थः । एवम् - 'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ।'
का० प्र० १०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org