________________
७४
फाव्यप्रकाशखण्डन
'इत्यादी लेषप्रतिभोत्पत्तिहेतुर्विशेषः, न तु विरोधप्रतिभोत्पत्तिहेतुः श्लेषः । लेपे हि अर्थअन्वयबोधविषयत्वम् । इह त्वेकस्यैव, अन्यस्य तूपस्थितिमात्रम् ।
तथा 'सद्वंशमुक्तामणिः' - सद्वंशः समीचीनं कुलं स एव वंशो वेणुस्तत्र मुक्तामणिरित्यर्थः । 'नाल्पःकविरिव [ स्वल्प ] श्लोको देव ! महान् भवान् ।' अनुरागवती सन्ध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥
सन्ध्या ` प्रातःसन्ध्या अनुरागवती लौहित्यवती प्रेमवती च । दिवसो दिनं तस्माः सन्ध्यायाः पुरःसरोऽग्रेसरः संमुखश्च । अहो आश्चर्ये । दैवगतिः विधातृरीतिः, चित्रविचित्रा, तथापि समागमः संयोगो नेत्यर्थः । इत्यादौ परम्परितरूपकस्य व्यतिरेकसमासोक्तिषु श्लेषस्य निर्वाहकता, न तु श्लेषे विश्रान्तिरिति ।
I
अत्र चित्रमेदानाह -
तचित्रं यत्र वर्णानां पद्मा (खडा) या कारहेतुता ॥ (का० ८५, उ० )
ननु वर्णानां कथं खङ्गाद्याकारतेति चेत्, न । संनिवेशविशेषेण यत्र न्यस्ता वर्णाः पद्मवन्नाद्याकार तामुल्लासयन्ति, लिखिताक्षराणां तथात्वात् तेन सहाभेदोपचारेण । खङ्गादिबन्धानां वर्णाश्रयता यंत्रालङ्कारे तत् । कष्टं काव्यमेतत् । यथा -
"
भासते प्रतिभा [प.४५, २] सार रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा |
पद्मबन्धः । अस्यार्थः - हे प्रतिभासार ! तव सभा भासते रसेनाभाता रसिकेत्यर्थः । हताऽविभा अदीप्तिर्यस्याः । भावितो वशीकृतः आत्मा यया सा । वादे शुभा । देवाभा देवतुल्या । बत हर्षे ।
रसासार रसा सारसायताक्ष क्षतायसा । सातावात [त] वातासा रक्षतस्त्वस्त्वतक्षर ॥
!
सर्वतो भद्रः । अस्यार्थः - रसासारेति सम्बोधनम् । हे पृथ्वि [सार ] ! रक्षतस्तव रसाऽस्तु । सारसः पक्षिमेदः जलजमिति वा तद्वद्दीर्घनेत्र ! क्षतः अयः शुभावहो विधिर्यस्य तं स्वतीति रसाविशेषणम् । सातावात सातं नष्टं, अवातं अज्ञानं यस्य । वा गतीत्यादिधात्वनुसारात्, ये गत्यर्थास्ते ज्ञानार्थाः । तनूकरणं तक्षः तं राति प्राप्नोति तदितर ! तु पुनरर्थे । एवमन्येऽपि खङ्गबन्धादयोऽनुसतव्याः ।
शब्दार्थोभयवृत्तित्वेन उभयोरलङ्कारयोर्मध्ये पुनरुक्तवदाभासं लक्षयति । पुनरुक्तवदाभासो विभिन्नाकारशब्दगा । एकार्थतेव, शब्दस्य.
(का० ८६)
१ मु. पु. 'पद्माथाकृतिहेतुता' इति पाठः ।
Jain Education International
For Private & Personal Use Only
D
www.jainelibrary.org