Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 91
________________ काव्यप्रकाशखण्डन 'यस्य वरस्याज्ञा नियोगरूपा शक्रस्येन्द्रस्य शिखायां मस्तके यो मणी रलं तत्र प्रणयिनी प्रीतियुक्ता । इन्द्रेणापि यदाज्ञा मस्तकेन ध्रियत इत्यर्थः । शास्त्राण्येव यस्य नवं नूतनं चक्षुः नेत्रम् । भूतानां प्राणिनां पतौ पिनाकिनि पिनाकधनुर्द्धरे परमकारुणिके भगवति भवानी परिवृढे भक्तिः । लङ्का इति दिव्या देवयोग्या पुरी नगरी सैव यस्य पदं स्थानम् । द्रुहिणस्य वंशे यस्योत्पत्तिर्जन्म । एष चेद् रावणो न स्यात् तदा इहग् वरो न लभ्यते । स्पष्टं शेषम् । अत्र स्यादेष इत्येतावतैव समाप्यम् । तथा हि- अत्र [१. ३२.२ ] रावणं प्रत्युपेक्षा - वाक्यार्थः स्याच्चैदेष न रावणः इत्यन्तेनैव प्राप्तः । क नु पुनः इत्यादिना समर्थनं नाकातीति इदमप्यनुचितार्थम् । केचित् तु प्रकृतार्थविरुद्धार्थकपदशालित्वं अपदयुक्तत्वं तेन अपदयुक्तत्वमेव पाठ इत्याहुः । समभिव्याहृत विजातीयार्थत्वं सहचरभिन्नत्वम्, यथा श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेंन चालंक्रियते नरेन्द्रता || अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सहचरैः व्यसनमूर्खतयोर्भिन्नत्वम् । इदमप्यनुचितार्थम् । प्रतिपादितविवक्षितार्थविरोधिव्यञ्जकार्थत्वं प्रकाशितविरुद्धत्वम् । विरुद्धं प्रकाश्यत इति गर्भितप्रस्तावे व्याख्यातम् । यथा - लग्नं रागावृताज्या सुदृढमिह ययैवासियष्ट्वाऽरिकण्ठे मातङ्गानामपहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥ रुधिराक्तशरीरया यया खड्गयष्ट्या वैरिकण्ठे लग्नं सक्तं या च हस्तिषु पतन्ती वैरिपुरुषैईष्टा तद्धस्तोऽयं किञ्चित् परसैन्यादिकं न मन्यते । वैरिकण्ठलमा मातङ्गेषु चाण्डालेषु च पतिता स्त्री अनेन भुज्यत इति व्यङ्ग्यम् । श्रीः समुद्रं खपितरं वदति - इदं तव विदितमस्तु त्वं जानीहीत्यर्थः । अहं साध्वी तेन भृत्येभ्यो दत्ताऽस्मि इति लक्ष्मीनिर्देशात् एतत्समुद्रं वक्तुमिव यस्य कीर्त्तिस्तं प्रति गतेत्यर्थः । अत्र विदितं तेऽस्तु इत्यनेन वेदयितव्यानुचितार्थाभिधानेन क्रोधाभिव्यक्तेः श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते इदमप्यनुचितार्थम् । विध्यनुवादपदाभ्यां [ अ ] युक्तं पदं प्रत्येकमन्वेति तेन विध्यनुयुक्तः ( विध्ययुक्तः ) अनुवादायुक्तश्चेति दोषद्वयम् । अयुक्तत्वं न तु विधेयत्वानवगम इति विधेयाविमर्शतो भेदः । यथा Jain Education International न प्रयत्नपरिवोधिः तस्तुतिभिरद्य शेषे निशाकेशव पाण्डवं भुवनमद्य निःसोमकम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148