Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text ________________
५०/
काव्यप्रकाशखण्डन
यत्रानुल्लिखितार्थमेव लिखितं निर्माणमेतद् विधेरुत्कर्षप्रतियोगि कल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुलङ्घ्य यत्सम्पदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥
यत्र यस्मिन् मणौ विधातुरेतन्निर्माणमुत्पादनं अनिर्वचनीयप्रयोजनमेव लिखितम् । एतस्मादयमधिक इति प्रशंसाऽपि यस्य धिक्कारायते । यस्य सम्पदः प्राणिनां मनोरथगोचरापि न छायामात्र मणीकृताश्मसु आभासमात्रेण । अमणय एव मणीकृता ये अश्मानो दृषदस्तेषु तस्य मणेरश्मत्वमेवोचितं इति नियमत्वं वाच्यम् । तथाकृते गुणान्तरव्यवच्छेदेन निन्दातिशयप्रतीतेः । प्राकृतमणिगणनायां चिन्तामणिगणनमनुचितमित्यर्थः । एतस्य न्यूनपद एवान्तर्भावः ।
अविवक्षित नियमस्य शब्देन प्रतिपादनमनियमपरिवृत्तः । यथावक्ाम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चत्यभीक्ष्णं स्वच्छेऽन्तमनसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानाभिलाषः ॥
अस्यार्थः - सरस्वती भारती, नदीभेदश्च । शोणो रक्तो नदश्च । सादृश्यात् सेतुबन्धे दर्शनाच्च काकुत्स्थवीर्यस्मरणम् । दक्षिणः सव्येतरः, दिग्विशेषश्च । समुद्रो मुद्रां अङ्गुलीयकं तत्सहितः, जलनिधिश्च । वाहिन्यः सेनाः नद्यश्च । मानसे मनसि सरसि च । अत्र शोण एवेति नियमो न वाच्यः । पिपासोर्नद्यन्तरव्यवच्छेदस्याविवक्षितत्वात् । ननु अस्याधिकपद एवान्तर्भाव इति चेत् न । यत्र सोऽर्थः तद्व्यतिरेकेणापि प्राप्यते तत्राधिकपदत्वम् । यत्र तेन न प्राप्यते किन्त्वन्येन अविवक्षितश्च भवति तत्रायम् । वस्तुतस्तु अतिरिक्त प्रमाणाभावादधिकपदस्यैव भेदः ।
-
प्राप्तस्य [ ५. ३१.२] विशेषस्य पुनरापादनं विशेषपरिवृत्तः । यथा - श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मपीकूर्चकैः
तत्रं मत्रमथ प्रयुज्य हरत वेदोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥
Jain Education International
-
श्यामां अन्धकारिणीं रात्रिं श्यामलिमानं श्यामतां आनयत संपादयत । भोरिति सम्बोधने । कैरित्याह – सांन्द्रैर्निबिडैर्मषी कूर्चकैः मवीक्षोदैः । त्रीयुक्तं कूर्चकं चित्रकरलेखिनी । मन्त्रमागमादिशास्त्रोक्तम् । तत्र शास्त्रं वैद्यकादि । तदुक्तयोगस्तदुक्तभेषजादिकरणम् । तत् कृत्वा श्वेतोत्पलानां श्वेतकमलानां श्रियं कान्ति हरत । शिलापट्टके पाषाणपट्टको परि
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148