SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ५०/ काव्यप्रकाशखण्डन यत्रानुल्लिखितार्थमेव लिखितं निर्माणमेतद् विधेरुत्कर्षप्रतियोगि कल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुलङ्घ्य यत्सम्पदस्तस्याभासमणीकृताश्मसु मणेरश्मत्वमेवोचितम् ॥ यत्र यस्मिन् मणौ विधातुरेतन्निर्माणमुत्पादनं अनिर्वचनीयप्रयोजनमेव लिखितम् । एतस्मादयमधिक इति प्रशंसाऽपि यस्य धिक्कारायते । यस्य सम्पदः प्राणिनां मनोरथगोचरापि न छायामात्र मणीकृताश्मसु आभासमात्रेण । अमणय एव मणीकृता ये अश्मानो दृषदस्तेषु तस्य मणेरश्मत्वमेवोचितं इति नियमत्वं वाच्यम् । तथाकृते गुणान्तरव्यवच्छेदेन निन्दातिशयप्रतीतेः । प्राकृतमणिगणनायां चिन्तामणिगणनमनुचितमित्यर्थः । एतस्य न्यूनपद एवान्तर्भावः । अविवक्षित नियमस्य शब्देन प्रतिपादनमनियमपरिवृत्तः । यथावक्ाम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चत्यभीक्ष्णं स्वच्छेऽन्तमनसेऽस्मिन् कथमवनिपते ! तेऽम्बुपानाभिलाषः ॥ अस्यार्थः - सरस्वती भारती, नदीभेदश्च । शोणो रक्तो नदश्च । सादृश्यात् सेतुबन्धे दर्शनाच्च काकुत्स्थवीर्यस्मरणम् । दक्षिणः सव्येतरः, दिग्विशेषश्च । समुद्रो मुद्रां अङ्गुलीयकं तत्सहितः, जलनिधिश्च । वाहिन्यः सेनाः नद्यश्च । मानसे मनसि सरसि च । अत्र शोण एवेति नियमो न वाच्यः । पिपासोर्नद्यन्तरव्यवच्छेदस्याविवक्षितत्वात् । ननु अस्याधिकपद एवान्तर्भाव इति चेत् न । यत्र सोऽर्थः तद्व्यतिरेकेणापि प्राप्यते तत्राधिकपदत्वम् । यत्र तेन न प्राप्यते किन्त्वन्येन अविवक्षितश्च भवति तत्रायम् । वस्तुतस्तु अतिरिक्त प्रमाणाभावादधिकपदस्यैव भेदः । - प्राप्तस्य [ ५. ३१.२] विशेषस्य पुनरापादनं विशेषपरिवृत्तः । यथा - श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मपीकूर्चकैः तत्रं मत्रमथ प्रयुज्य हरत वेदोत्पलानां श्रियम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥ Jain Education International - श्यामां अन्धकारिणीं रात्रिं श्यामलिमानं श्यामतां आनयत संपादयत । भोरिति सम्बोधने । कैरित्याह – सांन्द्रैर्निबिडैर्मषी कूर्चकैः मवीक्षोदैः । त्रीयुक्तं कूर्चकं चित्रकरलेखिनी । मन्त्रमागमादिशास्त्रोक्तम् । तत्र शास्त्रं वैद्यकादि । तदुक्तयोगस्तदुक्तभेषजादिकरणम् । तत् कृत्वा श्वेतोत्पलानां श्वेतकमलानां श्रियं कान्ति हरत । शिलापट्टके पाषाणपट्टको परि For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy