________________
सप्तम उल्लास
४९
हे शस्त्र ! त्वां भवन्तं अहमपि विमोक्ष्ये त्यजामि । यतोऽतो भवते खस्ति कल्याणमस्त्वित्यर्थः । अत्र द्वितीयशस्त्रमोचने हेतुमपातः । ननु हेत्वाकाङ्क्षायां वाक्यपर्यवसाने कथमयमर्थदोषः ? इति चेत्, न । पितृकर्तृकशस्त्रत्यागस्य हेतुत्वेनैवान्वयात् पितृकृतकर्मणः पुत्रेणाचरणीयत्वात् ब्राह्मणानुचितशस्त्रग्रहणस्येव । इत्थमपर्यवसितें वाक्यार्थेऽनन्तरं मप पित्रा मम शोकेन परित्यक्ते मयाऽपि पितृशोकेन त्यक्तव्यमिति पितृशोकस्य हेतुत्वमाकांक्षितं तदनुपादाने निर्हेतुत्वम् । एतस्य न्यूनपद एवान्तर्भावः ।
प्रसिद्धिविरुद्धं तत् यथाप्रसिद्धं तद्वि[ प. ३०.२ ]रुद्धमित्यर्थः । उदाहरणं तु पूर्वमेव प्रसिद्धिपरिहीने दत्तं " महाप्रलय" इत्यादि तदेव मन्तव्यम् । अत्र रवः सिंहनादादेरनुचितः । इदमप्यनुचितार्थम् ।
विद्या शास्त्रम्, तद्विरुद्धं यथा
सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥
अत्र महोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रे निषिद्धमितीदमप्यनुचितार्थम् । भङ्गयन्तरेण यन्नवत्वं न प्रापितं एकभङ्गीनिर्दिष्टाने कार्थत्वमिति यावत्, तदनवीकृतत्वम् । अनवीकृतत्वमुदाहरति
प्राप्ताः श्रियः कामदुघास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । सन्तर्पिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ श्रियो धनरूपाः प्राप्तास्ततस्तावता किम् ? न किमपीत्यर्थः । श्रियः कीदृश्यः ? सकलकामदुघाः समस्तेच्छाविषयदात्र्यः । विद्विषां शत्रूणां शिरसि मस्तके पदं चरणरूपं दत्तं स्थापितं ततः किम् ? तावता न किमपीत्यर्थः । एवमग्रेऽपि योज्यम् । अत्र ततः किमिति न नवीकृतम् । ततः किमित्यतो भयन्तराभावात् । अयमपि गुणाभाव एव, न दोषः । न चात्र कथितपदत्वमेवेति वाच्यम् । पर्यायान्तरप्रयोगेऽपि भङ्ग्यैकरूपतायामसाङ्कर्यात् । न च तथाप्यनेन कथितपदत्वान्यथा सिद्धिरिति वाच्यम् । सत्यप्यर्थ भेदतात्पर्ये पदैकत्वदोषादक्यप्रतिपादकस्य कथितपदस्य दोषकताबीजस्य भेदात् । पिष्टपेषणन्यायेनाशक्तिसूचनेन सहदयोद्वेगो दूषकताबीजम् ।
-
-
नियमादिभिश्चतुर्भिः परिवृत्तपदान्वयात् नियमपरिवृत्तादिचतुष्टयं लभ्यते । तैश्चतुर्भिः सहितः अनवीकृतः इति सनियमानियमविशेषा विशेषपरिवृत्तः । यद्वा नियमसहितो नियमादिस्तत्परिवृत्त इत्यर्थः । यद्वा नियमानियमाभ्यां सहितौ विशेषाविशेषौ तत्परिवृत्त इति । केचित् तु सनियमपरिवृत्त एव दोषः । तत्र सनियमपरिवृत्तः - सनियम [ प. ३१.१]त्वेन वाच्यः अनिमयत्वेनोच्यते' इत्यर्थमाहुः । नियमपरिवृत्तो दुष्ट इति मते तु नियमस्य शब्दादप्रतिपत्तिः '- नियमपरिवृत्त: 1 यथा -
Jain Education International
१ 'अप्रतिपत्तिः अज्ञानम् ' टि० ।
का० प्र० ७
For Private & Personal Use Only
www.jainelibrary.org