________________
काव्यप्रकाशखण्डन भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव! ।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥ हे भूपाल पृथिवीपाल ! करणे सभामे (), निर्गतं दूरीभूतं दैन्यं यस्य स तथा । प्रदानेन प्रकृष्टवितरणेन प्रथितो विस्तीर्णः उत्सवः आनन्दो यस्य स तथा । तस्य सम्बोधनं हे ! मे मह्यं तुरङ्गं अश्वं मदेनालसं मन्थरं मातङ्गं हस्तिनं वा विश्राणय देहीत्यर्थः । अत्र मातङ्गस्य बहुमौल्यत्वेन प्रानिर्देशः उचितः - इतीदमप्यनुचितार्थ[ म्] । यत्र हस्तीनामेव सुलभत्वं तत्र नेदमुदाहरणमिति मन्तव्यम् । प्राम्यो ग्रामसंभवोऽविदग्धोक्तिप्रतिपन्नः खरिरंसादिः । तदुक्तम् -
स ग्राम्यः खरिरंसादिः पामरैर्यत्र कथ्यते । वैदग्ध्यवक्रिमबलं हित्वैव वनितादिषु ॥
यथा
स्वपिति यावदयं निकटे जनः, स्खपिमि तावदहं किमपैति ते।। तदयि ! साम्प्रतमाहर कूपरं, त्वरितमूरु [प० ३०. १] मुदश्चय कुश्चितम् ॥ अयं जनो निकटे संनिधाने यावत् खपिति निद्राति तावदहमपि खपिमि निद्रामि । ते तव किं अपैति गच्छति । तत् तस्मात् , अयीति स्त्रीसम्बोधनम् , कूर्परं कफोणिं आहर सङ्कोचय । साम्प्रतं इदानीं कुञ्चितं वक्र ऊलं उदञ्चय ऋजुतां नय । त्वरितं शीघ्रमित्यर्थः । कूर्परः कफोणिः । अत्र रसविच्छेदः सहृदयहृदयवरस्यं वा दूषकताबीजम् । अत्रार्थस्यैव ग्राम्यता न शब्दस्य प्रकरणाद्यभावात् । इदमप्यनुचितार्थम् ।
सन्दिह्यमानोऽर्थः सन्दिग्धः । 'मात्सर्यमुत्सार्ये' त्यादि । अत्र प्रकरणाधभावे संदेहः, वक्तः प्रशान्तत्वे शृङ्गारित्वे वा निश्चिते निश्चय एव । अनुपात्तहेतुकोऽर्थो निर्हेतुः ।
गृहीतं येनासीः परिभवभयान्नोचितमपि
प्रभावाद् यस्याभून खलु तव कश्चिन्न विषयः। परित्यक्तं तेन त्वमसि सुतशोकान तु भयात्
विमोक्ष्ये शस्त्र ! त्वामहमपि यतः स्वस्ति भवते ॥ येन द्रोणेन गृहीतं स्वीकृतं आसीः, परिभवभयान्नोज्झितमसि न त्यक्तमसि ।यस्य द्रोणस्य प्रभावात् प्रतापात् , तव कश्चिन्न विषयोऽभूदिति न, अपि तु सर्वोऽपि त्वद विषयो जात इत्यर्थः । द्रोणेन त्वं सुतशोकान्मरणजनितविक्लवात् परित्यक्त्रमसि, न तु भयात् त्रासात् ।
१ 'क्वचिन्नोज्झितमसी'त्यपि पाठो दृश्यते । २ 'अनुचितमपि ब्राह्मणानां शस्त्रग्रहणानधिकाराद् इत्यर्थः ।' इति टिप्पणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org