________________
सप्तम उल्लास . पुनरुक्तः शब्देनैवा[प० २९, १ ]नुगतः, पुनः शब्देनोच्यते अर्थपुनरुक्तस्यापुष्टार्थत्वात् । अत्र प्रयोजनं विनेत्यपि विशेषणं देयम् । अत एव कर्णावतंसादिषु प्रयोजनं विनेत्यभावान्न पौनरुक्त्यम् । स चायं द्विविधः पदार्थवाक्यार्थभेदात् । तत्राद्यमुदाहरति'कृतमनुमत'मित्यादि । अर्जुनार्जुनेति भवद्भिरिति चोक्त, सभीमकिरीटिनामित्युक्ते किरीटिपदार्थः पुनरुक्तः । अर्जुनार्जुनसात्यके सात्यकेत्युपक्रमणपितृवधामर्षितस्याश्वत्थाम्नः उक्तिरियम् । कर्तुरनुमन्तद्रष्टुणां उत्तरोत्तरापराधस्य लाघवेन क्रमादुपन्यासः । तत्र कर्ताऽर्जुनः, अनुमन्ता सात्यकिः, अन्ये द्रष्टारः । तत्राद्ययोर्बलवद्वेषेण तत्र शाब्दबुद्धिः, अन्येषां बुद्धिस्थतैव । अत एव एतेषां शास्तिप्रदर्शनाय बुद्धिस्थपरामर्ष(श)कयत्पदवत्कृत्पदानुकर्षः । एतेन संबोध्ययोरबहुत्वे यरित्यादिषु बहुवचनमनुपपन्नमिति निरस्तम् । सम्बोध्यानां बहुत्वस्य दर्शितत्वात् । अत्र भवद्भिरित्यत्र सम्बोध्योपस्थिति विना भवत्पदप्रयोगानुपपत्तेः । तस्य संबोध्यात्मवाचित्वात् । किरीटिपदार्थोऽर्जुन एव । अथ चूर्णकपदाभ्यां सहैवान्वयबोधकत्वे शाब्दबोधसमय एव पौनरुत्यभावान्नार्थदोषतेति चेत्, न । पर्यायशब्दोपनीतेष्वर्थेषु आपाततोऽन्यत्वेन भानान्न पुनरुक्ततावभासः । समानसत्त्व एव एकत्वभानादित्युक्तत्वात् । वस्तुतो नैष साधीयान् दोषः । तथा हि-क्रुद्धस्य उक्तावनुक्तविस्मरणद्वारा क्रोधप्रज्वलनया पौनरुक्त्यस्य गुणत्वात् । न च सम्बोध्यविस्मृतौ भवच्छब्दप्रयोगानुपपत्तिरिति वाच्यम् । भवतेः शतृङा भवत्पदेन 'उदायुधैः सद्भिः' इत्यर्थस्य विवक्षणात् । यद्वा, सभीमेत्यादावेव विस्मरणात् । द्वितीयमाह -
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वार्यमाणे ।
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुश्च हार्दिक्य ! शङ्कां [प० २९. २]
ताते चापद्वितीये वहति रणधुरं को भयस्यावकाशः ॥ मम पितरि मजनके, सर्वधन्वीश्वराणां सर्ववीराणाम् , अध्यापकेऽस्मिन् प्रसिद्ध सेनानाथे स्थिते सति, हे कर्ण! सम्भ्रमेण त्रासेन अलं व्यर्थम् । हे कृप ! समरं सङ्घनमं व्रज गच्छ । हे हार्दिक्य कृतवर्मन् ! शङ्कां त्यज । मम पितरि, कीडशे ? अस्त्रज्वालया अवलीढं आखादित यत् प्रतिबलं प्रतिपक्षसैन्यं स तदेव जलधिः समुद्रः तस्यान्तर्मध्ये और्वायमाणे वडवानलायमाने, चाप एव द्वितीयः सहायो यस्यैतादृशे ताते पितरि, रणधुरं सङ्ग्रामभारं वहति धारयति सति, भयस्य त्रासस्य कः अवकाशोऽवसरः ? इत्यर्थः । अत्र कर्णालं संभ्रमेणेत्युक्तौ को भयस्यावकाश इति चतुर्थः पादः पुनरुक्तः । अत्रापि पूर्ववद् दोषोद्धारः । अत्र न केवलं पदार्थे वाक्यार्थे वा पौनरुक्त्यम् , पदैकदेशार्थेऽपि तत्संभवात् । यथा, 'तदीयमातङ्गघटा' इत्यादौ युक्तार्थान्तर्गतषष्ठ्यर्थेन तद्धितार्थस्य सम्बन्धस्य पौनरुक्त्यात् ।
दुष्कमेति-दुष्टः अनुचितो लोकविरुद्धः शास्त्रविरुद्धो वा क्रमो यत्रेत्यर्थः । तमुदाहरति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org