SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन न खलु विस्तीर्णपथसञ्चरणं श्रमहेतुः । येन तत्सत्त्वेऽपि श्रमत्यागे उकर्षहेतुः स्यात् । विततपदेन दीर्घत्वाभिधानेऽपि रथाख्ययानेन सञ्चरणान्न श्रमप्रतीप्तिः। एतेन अति विततत्वादय इत्यत्र अतद्गुणसंविज्ञानबहुव्रीहिणा तत् परिहृत्य मरुदुल्लासितेत्यादिग्रहणमिति केनचिद् यदुक्तं तन्निरस्तम् । तस्यापुष्टार्थस्य दर्शितत्वात् । यत् तु मरुदुल्लासितेत्यादि विरुद्धं हासपूर्व सौरभयोगादिति, तन्न । समकालत्वस्य विवक्षितत्वात् । अत्रान्वयबोधानन्तरं पदजीवात्वनु. सन्धानदशायां एषामनुपकारित्वग्रहः इति प्रतीत्याऽनुपपत्त्यार्थदोषता प्रतीत्यनुपपत्तावेव शब्ददोषतेति विभागः। कष्ट इत्यस्य दुरूह [प० २८.२] इत्यर्थः । आसत्त्याक्सित्त्वेऽपि विलम्बितप्रतीतिकत्वं तत्त्वम्। सदा मध्ये यासामियममृतनिस्सन्दसरसा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् । प्रसादं ता एता धनपरिचिताः केन महतां महाकाव्यव्योग्नि स्फुरतु(रित) मधुरा यान्तु रुचयः॥ . अस्यार्थः- अमृतं सुधाजलं च, रसो माधुर्य शृङ्गारादिश्च, सरस्वती वाणी नदी च, मागों रीतिः पन्था च, परिमलं चमत्कारं सुखं च, प्रसाद सुव्यक्तत्वं स्वच्छकान्तिश्च, घनो निबिडो मेघश्च, परिचिताः अत्यन्ताभ्यस्ताः सम्बद्धाश्च, रुचयः अभिसन्धयः कान्तयश्च, महतां कवीनां आदित्यानां च, तेषां च द्वादशत्वात् । अवार्थप्रतीतिर्विलम्बेनेति युक्तं कष्टेऽन्तर्भावः । निन्दित्वा पुरस्कृत्य वा तदन्यथाकरणविशिष्टाहतिर्व्याहतत्वं न चास्यानुचितार्थता । तत्र पशुकुविन्दादिपदैः खार्थोपस्थितिदशायामेवोपश्लोक्यमानस्य तिरस्कारावगमः । अत्र तु चन्द्रिकापदस्य तदर्थस्य तु अनुसन्धानादेव न तिरस्कारोऽवगम्यते, किन्तु वाक्यार्थबोधानन्तरं नवेन्दुकलादयोऽयं प्रतीत्यर्थपर्यालोचनेनेति भेदात् । यथा जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं जा(या)ता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ जगति संसारे ते ते प्रसिद्धा भावाः पदार्थाः नवेन्दुकलादयोऽन्ये सन्त्येव वर्तन्त एव । ते के ? इत्याह-ये मनोऽन्तःकरणं मदयन्ति आनन्दयन्ति । कीदृशाः १. प्रकृतिमधुराः खभावसुन्दराः । मम तु यद इयं मालती नयनविषयं नेत्रगोचरतां याता प्राप्ता, जन्मन्यस्मिन् , मम स एवैको महोत्सवो नान्यः। कीदृशी ? विलोचनयोर्नेत्रयोश्चन्द्रिका चन्द्रज्योत्स्नेत्यर्थः । इत्यत्र नवेन्दुकलादयो यं प्रति पश्पशप्रायाः स एवं चन्द्रिकात्वमुत्कर्षार्थमारोपयति इति व्याहतत्वमितीदमप्यनुचितार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy