________________
सप्तम उल्लास
* कृत्वा चन्द्र चन्द्रमसं कणशः चूर्णयत, येनाहं दश दिशः दिग्दशकं द्रष्टुमवलोकयितुं क्षमे शोमि । कीदृश्यो दश दिश: ? तद्वक्त्रमेव मुद्राचिह्नं तयाऽङ्किताश्चिह्निता इत्यर्थः । यामापदोपादाने कृते योग- रूढिभ्यां श्यामत्वं प्राप्तमेव । तत्र श्यामलिमाऽऽपादनं व्यर्थम् । अत्र ज्योत्स्वामिति श्यामाविशेषो वाच्यः । एतस्य न्यूनपद एवान्तर्भावः । यत्र यो विशेषो न युक्तः तत्र तस्योक्तिर्वक्तव्यस्यानुक्तिः । अविशेष पैरिवृत्तः, यथा -
कल्लोलवेल्लित पत्परुपप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः ।
किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ अत्र 'एकेन किं न विहितो भवतो न ( भवतः स १ ) नाम' इति वाच्यम् । यतो येषामेतं तदितरेष्वनादरोऽयुक्तः ।
विशेषस्योपकारित्वे सामान्येषु कथमादरः ? इति प्रतीतिमान्थर्यम् । अस्यापि न्यूनपद एवान्तर्भावः ।
अनुपात्तार्थाकाङ्क्षाविषयत्वं साकाङ्क्षत्वम् । यथा
-
अर्थिवे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत दुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्ष च परस्य मानयशसोर्विश्रं (सं) सनं चात्मनः
स्त्रीरत्नं च जगत्पतिर्दशमुखी देवः [प. ३२. १.] कथं मृष्यति ॥ रावणदूतस्य एतद्वचनम् - प्रभोः रावणस्य अर्थित्वे याचकत्वे प्रकटीकृतेऽपि व्यक्तीकृतेऽपि न फलप्राप्तिः न ' सीतालाभः । न केवलफलाप्राप्तिः अपि तु शत्रोस्तत्प्राप्तिरित्याह - प्रत्युत दाशरथिः रामः ब्रह्मन् रावणद्रोहं कुर्वन् तया सीतया युक्तो मिलितः । विरुद्धचरितो रावणेन समं विरुद्धं चरितं चरित्रं यस्य सः । परस्य रामस्य, उत्कर्षः आधिक्यं, आत्मनः स्वस्य, मान-यशसोरभिमान - कीर्विश्रं (सं) सनं निराकरणम्, स्त्रीरत्नं च सीतारूपम्, दशमुखो जगत्पतिः पृथिवीपतिः, कथं मृष्यति न मृष्यतीत्यर्थः । अत्र स्त्रीरत्नमित्युपेक्षितुमाकाङ्क्षति अन्यस्त्रीरत्नमिति कथं मृष्यतीत्यनन्वितं स्यात् । तथा हि कथं न मृष्यतीत्यस्य कथं न द्वेष्टीत्यर्थः स्यात् । मृषधातोरद्वेषार्थत्वात् । तथा च स्त्रीरत्नस्य द्वेषायोग्यत्वे कथं कथमित्यादिना अन्वयः । ततश्च न्यूनपद एव साकाङ्क्षत्वस्यान्तर्भावः समुचितः ।
रावणः,
अपदमुक्तत्वं अस्थानसमाप्यत्वम्, यथा -
Jain Education International
आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नव भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिहिणान्वये च तदहो नेदृग् वरो लभ्यते
स्याच्चैदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥
१ 'श्यामामित्यत्र ज्योत्स्नीमिति विशेषं विहाय श्यामामिति सामान्येनोक्तमिति विशेषपरिवृत्त इत्यर्थः । २ यत्र सामान्यं विज्ञाय विशेषणोक्तिः । ३ मा अवज्ञां कुरुथाः । ४ हेतोः । ५ शक्रशिखामणावेव सदा तिष्ठतीति भावः ।' इति टि० ।
For Private & Personal Use Only
www.jainelibrary.org