________________
काव्यप्रकाशखण्डन
'यस्य वरस्याज्ञा नियोगरूपा शक्रस्येन्द्रस्य शिखायां मस्तके यो मणी रलं तत्र प्रणयिनी प्रीतियुक्ता । इन्द्रेणापि यदाज्ञा मस्तकेन ध्रियत इत्यर्थः । शास्त्राण्येव यस्य नवं नूतनं चक्षुः नेत्रम् । भूतानां प्राणिनां पतौ पिनाकिनि पिनाकधनुर्द्धरे परमकारुणिके भगवति भवानी परिवृढे भक्तिः । लङ्का इति दिव्या देवयोग्या पुरी नगरी सैव यस्य पदं स्थानम् । द्रुहिणस्य वंशे यस्योत्पत्तिर्जन्म । एष चेद् रावणो न स्यात् तदा इहग् वरो न लभ्यते । स्पष्टं शेषम् । अत्र स्यादेष इत्येतावतैव समाप्यम् । तथा हि- अत्र [१. ३२.२ ] रावणं प्रत्युपेक्षा - वाक्यार्थः स्याच्चैदेष न रावणः इत्यन्तेनैव प्राप्तः । क नु पुनः इत्यादिना समर्थनं नाकातीति इदमप्यनुचितार्थम् । केचित् तु प्रकृतार्थविरुद्धार्थकपदशालित्वं अपदयुक्तत्वं तेन अपदयुक्तत्वमेव पाठ इत्याहुः ।
समभिव्याहृत विजातीयार्थत्वं सहचरभिन्नत्वम्, यथा
श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिः समाधिना नयेंन चालंक्रियते नरेन्द्रता || अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सहचरैः व्यसनमूर्खतयोर्भिन्नत्वम् । इदमप्यनुचितार्थम् । प्रतिपादितविवक्षितार्थविरोधिव्यञ्जकार्थत्वं प्रकाशितविरुद्धत्वम् । विरुद्धं प्रकाश्यत इति गर्भितप्रस्तावे व्याख्यातम् । यथा -
लग्नं रागावृताज्या सुदृढमिह ययैवासियष्ट्वाऽरिकण्ठे मातङ्गानामपहोपरि परपुरुषैर्या च दृष्टा पतन्ती ।
तत्सक्तोऽयं न किञ्चिद् गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद् गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥
रुधिराक्तशरीरया यया खड्गयष्ट्या वैरिकण्ठे लग्नं सक्तं या च हस्तिषु पतन्ती वैरिपुरुषैईष्टा तद्धस्तोऽयं किञ्चित् परसैन्यादिकं न मन्यते । वैरिकण्ठलमा मातङ्गेषु चाण्डालेषु च पतिता स्त्री अनेन भुज्यत इति व्यङ्ग्यम् । श्रीः समुद्रं खपितरं वदति - इदं तव विदितमस्तु त्वं जानीहीत्यर्थः । अहं साध्वी तेन भृत्येभ्यो दत्ताऽस्मि इति लक्ष्मीनिर्देशात् एतत्समुद्रं वक्तुमिव यस्य कीर्त्तिस्तं प्रति गतेत्यर्थः । अत्र विदितं तेऽस्तु इत्यनेन वेदयितव्यानुचितार्थाभिधानेन क्रोधाभिव्यक्तेः श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते इदमप्यनुचितार्थम् ।
विध्यनुवादपदाभ्यां [ अ ] युक्तं पदं प्रत्येकमन्वेति तेन विध्यनुयुक्तः ( विध्ययुक्तः ) अनुवादायुक्तश्चेति दोषद्वयम् । अयुक्तत्वं न तु विधेयत्वानवगम इति विधेयाविमर्शतो भेदः ।
यथा
Jain Education International
न
प्रयत्नपरिवोधिः तस्तुतिभिरद्य शेषे निशाकेशव पाण्डवं भुवनमद्य निःसोमकम् ।
For Private & Personal Use Only
www.jainelibrary.org