Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 106
________________ अष्टम उल्लास ६७ ' इति चेत्, न । • काव्यशोभायाः कर्त्तारो धर्मा गुणाः, तदतिशयहेतवस्त्वलङ्कारा इति विभागोपपत्तिः । एवं चेदर्थगुणा अपि स्वीकार्याः । तथा हि - क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषः । अस्यार्थः- - क्रमः क्रियापरम्परा, विदग्धचेष्टितं कौटिल्यम्, अप्रसिद्धवर्णनविरहः अनुस्वणत्वम्, उपपादकयुक्तिविन्यास उपपत्तिः, एषां योगः । सः स (ख ?) रूपं यस्य (स्या) घटनायाः सश्लेषः । उदाह० दृष्कासनसंस्थिते प्रियतमे पश्चादुपेत्यादरा देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः । ईषतकन्धरः सपुलक प्रेमोल्लसन्मानसामन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ एवं प्रसादोऽर्थवैमल्यं यावदर्थपदता । यथा काञ्चीपदं न तु काञ्चीगुणस्थानमिति । 'अत्र गुणपदस्याधिक्यात् । • अवैषम्यरूपा समता क्रमाभेदः । यथा - - 'उदेति सविता ताम्र' इत्यादौ । माधुर्यमुक्तिवैचित्र्यम् । [१० ४१.२] एकस्यैवार्थस्य भङ्ग्यन्तरेण कथनं तदेव नवी - कृतत्वम् । यथा - यदि दहत्यनिलो किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु. सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥ इत्यादौ स्वाभाविकत्वादिनाऽद्भुतम् । एवं 'किं तत एतयोरपि । अत्र स्वाभाविकत्वस्य भनान्तरेण कथनान्नवीकृतत्वम् । सुकुमारता अपारुष्यम् । अकाण्डे शोकादिदायिताभावः । यथा 'मृते यशःशेष' इति । यथा वा - सारसवत्ता विहता नवका विलसन्ति चरति नो कङ्कः । सरसीव कीर्त्तिशेषं गतवति भुवि विक्रमादित्ये ॥ Jain Education International • तथा वस्तुस्वभावस्फुटत्वमर्थव्यक्तिः । वस्तुनः स्वभावस्य स्फुटत्वं वर्णनीयव्यक्तीकरणं यत्र रसाभिव्यक्तिकृतचारुत्वाय परं भवतीति शेषः । यथोदाहृते 'पारावतः परिभ्रम्ये' त्यादौ । स्वभावोक्तिस्तु अलङ्कारकृतचारुत्वाय परं भवतीति ततोऽस्य भेदः । उदारत्वं वाच्यतावैदग्धी । यथा - 'कामकन्दर्पचाण्डालो मयि वामाक्षि ! निर्दय' इत्यादौ । पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा । प्रौढिर्व्यास-समासौ च [ साभिप्रायत्वमस्य च ॥ ] ओजः । क्रमेणोदा० 'द्र' इत्येकपदार्थे 'अत्रिनयनसमुत्थं ज्योति' रिति । द्वितीयं यथा - 'कान्तार्थिनी तु या याति सङ्केतं साभिसारिका' इति बहुपदार्थेषु अभिसारिकापदा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148