Book Title: Kavya Prakasha Khandana
Author(s): Siddharshi Gani, Rasiklal C Parikh
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 100
________________ ६१ सप्तम उल्लास , 'प्रकृतयश्च --दिव्या अदिव्या दिव्यादिव्याश्च । धीरोदात्त-धीरोद्धत-धीरललित-धीरशान्ता उत्तमाधममध्यमाश्च । तेषां लोकाशास्त्रातिक्रमेण अन्यथा वर्णनम् । 'अनङ्गस्य' रसानुपकारकस्य अभिधानं कथनम् , यथा-कर्पूरमञ्जयाँ आत्मना नायिकया च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञः प्रशंसनम् । 'ईशा' इति, नायिकापादप्रहारादिना नायककोपवर्णनमिति । उक्तञ्च 'अनौचित्याद् ऋते नान्यद् रसभङ्गस्य कारणम् । प्रसिख्यौचित्यबन्धस्तु रसस्योपनिषत् परा ॥ इति । इहेदानी कचिददोषा एते इत्याह - .. न दोषः खपदेनोक्तावपि सञ्चारिणः कचित् । (मू० का० ६३, पू०) यथा प्रातः पुनः स्वादुदियाच भानोः पश्याम कोदण्डमनाततज्यम् । इत्युत्सुकस्तत्र स रामभद्रो निद्रादरिद्रो रजनीमनैषीत् ॥ अत्रोत्सुकशब्द इव तदनुभावो न तथाप्रतीतिकृदिति खशब्देनोपादानम् । यथा वा, 'दूरादुत्सुकमागते त्यादौ, 'औत्सुक्येन कृतत्वरा' इत्यादौ च । तदनुभावस्य सहसा प्रसारणांदिरूपस्य खशब्दस्येव तस्य झटिति प्रत्यायकत्वात् ।। सश्चार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ (मू० का० ६३, उ०) बाध्यत्वेनोक्तिर्न परं दोषो यावत् प्रकृतरसपरिपोषकृत् । यथा 'क्काकार्य शशलक्ष्मण इत्यादौ । वितर्कमतिशङ्काधृतीनां शान्तसञ्चारिणां शृङ्गारपरिपन्थिनामपि बाध्यत्वेनोक्तेः शत्रुविजयपूर्वकराज्यलाभवत् प्रकर्षविशेषाधायकत्वेन तत्परिपोषकतानामुपमर्य चिन्तायामेव विश्रान्तेः । तेनात्र प्रतिकूलविभावादिग्रहो न दोषः, सञ्चार्यादेरित्यादिग्रहणात् । विरुद्धस्य विभावादेर्बाध्यत्वेनोक्तौ गुणावहत्वं यथा सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः। किन्तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥ रामाः स्त्रियः मनोरमाः सौन्दर्यवत्यः इति सत्यं यथार्थम् , विभूतयः संपत्तयः रम्याः शोभनाः इति [प. ३८. १] सत्यम् । किन्तु परन्तु जीवितं जीवनं मत्ता मदनेन मत्ता या अङ्गना स्त्री तस्याः अपाङ्गो नेत्रप्रान्तस्तस्य भङ्गस्तियक्त्वेन वीक्षणं तद्वत् लोलं चञ्चलमित्यर्थः । अत्र शहारविभावस्य शान्तविभावस्य जीवितास्थैर्यत्वस्य परस्परं विरुद्धत्वेऽपि शङ्गारविभावस्य बाध्यत्वेनाभिधानात् न दोषत्वम् , अपि तु गुणत्वं शान्तपरिपोषकत्वात् । सर्वा रामादयः सत्येव जीविते तदर्थमुपादेयाः, जीवितं वातिभङ्गुरमिति कृतमुपादेयत्वमेतेषाम् । अतो रम्यत्वेऽपि निष्फला एवेति पर्यवसानात् ।। आश्रयैक्यविरुद्धो यः स कार्यों भिन्नसंश्रयः। रसान्तरेणान्तरितो नैरन्तर्येण यो रसः॥ (मू० का० ६४ ) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148