________________
सप्तम उल्लास . अत्र संहितां न करोमीति खेच्छया सकृदपि दोषः, प्रगृह्यादिहेतुके त्वसकृत् । । हतवृत्तम् - जातयतिभङ्गादिरसाननुगुणं च वृत्तम् । यथा
अमृतममृतं का सन्देहो मधून्यपि नान्यथा
मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविजनो
__ वदतु यदिहान्यत् खादु स्यात् प्रियादशनच्छदात् ॥ अत्र हरिणीच्छन्दसि षष्ठे दशमे सप्तदशे यतिरुचिता । चतुर्थे तु पादे 'यविहान्यत्वादु स्थाद्' इति यतिभङ्गादश्रव्यम् । नन्वत्रेहान्यशब्दयोः सन्धौ ‘अन्तादिवच' इत्यन्तवद् भावाद् वा शब्दे यतियुक्तैव । तदुक्तम् -
पूर्वान्तवत्स्वरः सन्धौ क्वचिदेवं परादिवत् ।
एष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ॥ इति ॥ प्रयोगोऽपि
स्थादस्थानोपगतयमुनासङ्गमेनाभिरामा । इति । तस्माञ्चिन्त्यमेतत् । यथा वा
हा नृप ! हा बुध ! हा कविवन्धो ! विप्रसहस्रसमाश्रय ! देव!।
मुग्धविदग्धसभान्तररत्न ! कासि गतः क वयं च तवैते ॥ हास्य[प० २४. १]व्यञ्जकमद्वृत्तम् । न्यूनपदं यथा
त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः ।
कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः ॥ अत्रापराधलवमपीति वाच्यम् । अधिकपदं यथा
इदमनुचितमक्रमश्च पुंसां यदिह जरास्खपि मान्मथा विकाराः।
यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥ अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावहति । अत्राकालाविरहः स्फुट एव दृषकताबीजम् । कथितपदं यथा
अधिकरतलतल्पं कल्पितखापलीला
परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु ! कथय कस्य व्यञ्जयत्यञ्जसैव
स्मरनरपतिलीलायौवराज्याभिषेकम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org