________________
काव्यप्रकाशखण्डन "हे सुतनु ! वरतनो! ते तव गल्ल(ण्ड)पाली कस्य स्मर एव नरपतिस्तस्य लीलाराज्यपरिभोगस्तत्र यौवराज्यं कुमारपदवी तस्मिन् अभिषेकं व्यञ्जयति बोधयति । कथं अनसैव शीघ्र यस्तव भोक्ता तस्मै कामेन खराज्यविभागो दत्तः । स एव कामस्य मान्यो यसै त्वत्सदृशं रत्नं भोगाय दत्तमित्यर्थः । कीदृशी गण्डपाली ? करतलमेव तल्पं शय्या तत्र कल्पिता रचिता निद्रालीला यस्याः सा शोकेन कपोलतले निहितेत्यर्थः । पुनः कीदृशी ? परिमिलनेन परितो हस्ततलस्पर्शेन निमीलत्पाण्डिमा अस्तं गच्छन् गौरभावो यस्याः सा । करसंपर्केण लौहित्योदयादिति भावः । करसङ्गेन पत्युः करस्पर्श व्यनक्ति । तल्पखापेन पत्युः तरूपखापम् । पाण्डिमात्यागेन पतिभोगप्रयुक्तवर्णान्तरप्राप्तिं च व्यनक्तीति गम्यम् । अत्र लीलेति पिष्टपेषणवदचमत्कारित्वमेव दूषकताबीजम् । पतत्प्रकर्ष यथा
का कः कुत्र न घुघुरायितधुरीघोरो घुरेच्छूकरः ___ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
____ सिंहीस्नेहविलासबद्धवसतिः पश्चाननो वर्त्तते ॥ कः कः शूकरो वराहः कुत्र न घुरेत् न सञ्चरेत् अपि तु सर्वत्र । कीदृशः: [प० २४. २ ] घुर्घरायिता शब्दविशेषवती या धुरी पोत्रं शूकरमुखस्याग्रभागः तेन घोरो भयङ्करः । धुरी वाद्यभाण्डमिति केचित् । कः कः करी हस्ती, कं कमलाकरं सरोवरं विकमलं कमलाभावविशिष्टं कत्तं नोद्यतो नोद्यक्तः ? अपि तु उद्युक्त एव । के के अरण्यमहिषा वनमहिषा कानि च वनान्यरण्यानि नोन्मूलयेयुः ? अपि तु उन्मूलयेयुरेव । यतो हेतोः पञ्चाननो सिंहः सिंह्यां खभार्यायां यः स्नेहः प्रेम तस्य यो विलासस्तेन बद्धा स्वीकृता वसतिः स्थैर्य येन तादृशो वर्तते तिष्ठति । अत्र शूकरायभिधाने विकटानुप्रासः कृतः । स च सिंहाभिधाने पतितः । अशक्तिसूचकत्वमेव चात्रापि दूषकताबीजम् । रसानुगुणत्वेन कचित् तस्पातो न दोष इत्यनित्यदोषोऽयम् ।
समाप्तपुनरात्तम् – यत्र विशेषणं समाप्तं जनितान्वयबोधं पुनरातं आवृत्तं तत् । वस्तुतस्तु विशेष्यं समाप्तं जनितान्वयबोधं अनु कर्मकोपादानं विना पुनरातं आवृत्तं योति बोध्यम् । यथा
क्रेङ्कारः स्मरकामुकस्य सुरतक्रीडापिकीनां वो ___ झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः । । तन्न्याः कश्चलिकापसारणभुजाक्षेपस्खलत्कङ्कण
क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुखनः॥ तन्व्याः कृश ... ञ्चलिकापमारणार्थे यो भुज.क्षेपः कान्तस्य दोरान्दोलनं तेन स्खलन् पतन् यत् कङ्कणं तस्व काणः शब्दो वः युष्माकं प्रेम प्राति तनोतु विस्तारयतु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org