SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सप्तम उल्लास • ४१ "कीदृशः ? स्मारकार्मुकस्य कन्दर्पधनुषः, क्रेङ्कारः शब्दविशेष इति रूपकम् । एवमग्रेऽपि । सुरतक्रीडा निधुवनलीला सैव पिकी कोकिला तासां रवः कूजितम्, रतिरनुरक्तिः सैव मञ्जरी तस्या मधुलिहः षट्पदास्तेषां झङ्कारः कोलाहलविशेषः, लीला क्रीडा सैव या चकोरी तस्य ध्वनिः कण्ठनादः, नवं नूतनं यद् वयो यौवनं तस्य लास्यं नृत्यं तदर्थं वेणुखनो वंशध्वनिरित्यर्थः । अत्र तनोतु व इति समाप्तमेव वाक्यं न च वय इत्या[ प० २५. १ ]दिविशेषणेन पुनरुपात्तम् । नन्वत्र क्रियाकारकभावेनान्वयबोधे जाते पुनर्विशेषणान्वये निराकाङ्क्षात्वमेव दूषकताबीजं वाच्यम् । तत् तु न घटते । पुनर्विशेषणांशे तात्पर्यसत्त्वेन तात्पर्यविषयीभूतान्वयबोधाजननेन तदुद्घटिताकाङ्क्षायाः सत्त्वात् इति चेत्, साध्ववोचः । किन्त्वत्र तात्पर्यग्राहकं उत्कटं नास्ति, तदग्रह विलम्बेनान्वयबोधविलम्ब एव दूषकताबीजम् । यत्र तु तद् ग्राहकमस्ति तत्र नेदं दूषणम् । यथा नववयोलास्याय गीतं तथा तथेत्यस्य उत्कटताग्राहकसत्त्वात् । एवमन्यत्रापि बोध्यम् । I अस्थानस्थपदम् - अपदस्थपदं अयोग्यस्थानस्थमित्यर्थः । तत्त्वं च यथास्थितखार्थानुभावकत्वे सति खसाकाङ्क्षव्यवहितस्थानप्रयुक्तत्वम् । यथास्थितिः तयैवानुपूर्व्या । तेन सङ्कीर्णगमितादिषु न प्रसङ्गः । तेषु तयानुपूर्व्या विवक्षितार्थानुभावकत्वाभावात् । अत्र तु न तथेति । यथा -- द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी || इत्यत्र त्वंशब्दादनन्तरं चकारो युक्तः । तदैव तस्याः समुच्चेयता स्यात् । इदमत्रावधेयम् - अर्द्धान्तरैकवाचकं यत्र द्वितीया गतैकवाचकशेषं प्रथमार्द्धम्, तत् । तथा सङ्कीर्ण यत्र वाक्यान्तरे वाक्यान्तरमनुप्रविशति तत् । तथा गमितं वाक्यस्य मध्ये वाक्यमनुप्रविशति सत् । तथाऽक्रमं यत्र यदुत्तरं यत्पदोपादानं युक्तं तदन्यत्र तदुपादानं तत् । एतानि चत्वारि जीर्णैरभ्युपगतानि दूषणानि अस्मिन् अस्थानस्थ - पद एव अन्तुर्भूतानि । संकीर्णस्य क्लिष्ट एवान्तर्भाव इति नवीनाः । अस्थानस्थसमासं यथा - अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एव धिगिति क्रोधादिवालोहितः । • प्रोद्यद्दरतर प्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोश [प० २५. २. ] निस्सरदलिश्रेणीकृपाणं शशी ॥ असौ शशी चन्द्रः, तत्क्षणे तरकाले उत्फुल्लद्विकसमानं यत् कैरवं कुमुदं तस्य कोशो मध्यभागस्तस्मान्निःसरन्ती बहिर्यान्ती अलिश्रेणी भ्रमरपतिरेव कृपाणी खगस्तां कर्षति आकर्षति । कीदृशः शशीत्याह - सीमन्तिनीनां कामिनीनां हृदि वक्षसि अद्यापि स्थातुं एष का० प्र० ६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002506
Book TitleKavya Prakasha Khandana
Original Sutra AuthorSiddharshi Gani
AuthorRasiklal C Parikh
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1953
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy