________________
४२
काव्यप्रकाशखण्डन मानः वाञ्छति । धिग् इति क्रोधादिव आलोहितः आरक्तः । पुनः कीदृशः!-प्रोद्यद्दीप्यमानः दूरतरं प्रसारितो विस्तीर्णः करो हस्तो येन, इत्यर्थः । अत्र क्रुद्धस्योक्तौ समासो न कृतः, कवेरुक्तौ तु कृतः । अर्द्धान्तरैकवाचकं द्वितीयार्द्धगतैकशेषं प्रथमार्द्धम् । यथा
मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं म्रर्ध्नि धर्मः कठोरः । , तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥ भूः सदर्भा, तत् तस्मात् , लघु चरणप्रक्षेपं यथा स्यात् तथा गम्यताम् । धर्मः आतपः कठोरः, तस्मान्मूर्ध्नि मस्तके सिचयान्तं उत्तरीयान्तं वितरत(विरचय ?) देहि । इत्यनेन प्रकारेण पथि मार्गे पथिकवधूभिः पथिकस्त्रीमिः जनकपुत्री सीता शिक्षिता उपदेशं प्रपिता; अश्रुपूर्णैर्लोचनैर्वीक्षिता अवलोकिता चेत्यर्थः । अत्र भूः सदर्भा तन्मसृणचरणपातं गम्यतामिति अन्वये अनासत्तिरेव दूषकताबीजम् । __अभवन्मत इष्टो योगो सम्बन्धो यत्र, तत् तथा । विवक्षितसम्बन्धबोधं प्रति खरूपायोग्यमिति यावत् । तेन विधेयाविमर्षे (शें )नातिव्याप्तिः । तत्र रचनान्यथात्वेऽपि विवक्षितसम्बन्धोपपत्तेः । तत्र वैभक्तिकोऽन्वयो भवत्येव । अत्र तु सोऽपि नेति विशेषाच्च । यथा
जङ्घाकाण्डोरुनालो नखकिरणलसत्केसरालीकराला
प्रत्यग्रालक्तकाभाप्रसरकिसलयोम मञ्जीरभृङ्गः । भर्खनृत्तानुकारे जयति निजतनुस्खच्छलावण्यवापी
___सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः॥[प० २६. १] __ भवान्याः पार्वत्याः दण्डपादः, 'प्रसह्योर्कीकृतः पादो दण्डपादोऽभिधीयत' इत्युक्तलक्षणो जयति । कीदृशः ? जङ्घाकाण्ड एव उरुः अतिशयितो नालो यत्र, नखकिरणरूपा लसन्ती केसराणां आली परम्परा तया करालो दन्तुरः, प्रत्यग्रं नूतनं यदलक्तकं तस्य आभा कान्तिस्तस्य प्रसरो विस्तारः स एव किसलयो यत्र, मञ्जु मनोहरं यन्मञ्जीरं तदेव भृङ्गो यत्र, भर्तुर्महेश्वरस्य यत् नृत्तं तस्यानुकरणे । पुनः कीदृशः ? निजा खकीया या तनुः पार्वतीशरीरं तदेव या खच्छा निर्मला लावण्यवापी सौन्दर्यदीर्घिका ततः संभूतं यदम्भोज कमलं तस्य शोभा सौन्दर्य दधत् । अभिनवो नूतनः इत्यर्थः । अत्र दण्डपादगता निजतनुः प्रतीयते भवानीसम्बन्धिनी तु विवक्षिता निजखात्मादिशब्दानां प्रधानक्रियान्वितान्वयित्वव्युत्पत्तेः । इदं न ज्यायः । काव्याकाव्यसाधारणस्यास्य काव्ये विशिष्योत्कीर्तनस्यान्याय्यत्वात् । अनभिहितवाच्यं तत् , अवश्यवाच्यमनुक्तं यत्र । १
त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराअखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि ! दासजनं यतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org