________________
सप्तम उल्लास .
४३ - इदमपि न साधु । न्यूनपद एवास्यान्तर्भावात् । न च न्यूनपदं पदघटितम् , अनभिहितवाच्यं तु द्योतकशब्दघटितमिति 'अनयोर्भदो वक्तव्य इति वाच्यम् । यत एतादृशि यत्किञ्चिद्मेदकल्पने दोषाणामानन्यं स्यात् ।। गर्भितं यत्र वाक्यान्तरमध्ये वाक्यान्तरमनुप्रविशति -
परापवादनिरतैर्दुर्जनैः सह सङ्गतिः ।
वदामि भवतस्तत्त्वं न विधेया कदाचन ॥ अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । अयं न पृथक्, अस्थानस्थ एवान्तर्भावात् । प्रसिद्धिपरिहीनं प्रसिद्धादन्यत्र प्रयुक्तम् । प्रसिद्धिपरिहीनं यथा -
महाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगार्जितप्रतिरवा(रुता)नुकारी मुहुः। रवः श्रवणभैरवः स्थगितरोदसीकन्दरः [प० २६. २ ]
___ कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ अद्य समरोदधेः सभामसमुद्रात् पुरः अग्रप्रदेशे रवः शब्दः मुहुर्वारं वारं कुतो हेतोर्वर्तत इति शेषः । कीदृशः ! महाप्रलयाय यो मारुतः पवनः स महाप्रलयमारुतः, तेन क्षुभितः इतस्ततः प्रेरितः, पुष्करावर्तकः पुष्करावर्तसञ्जकः प्रचण्डः प्रौढो यो घनो मेघस्तस्य यद गर्जितं शब्दविशेषस्तस्य यत् प्रतिरुतं प्रतिध्वनिस्तदनुकारी तत्सदृशः। श्रवणयोः श्रोत्रयोभैरवः कटुः । स्थगितः पूर्णः रोदसी द्यावाभूम्योरन्तरं मध्यं तदेव कन्दरा येन सः । अभूतपूर्वः पूर्व अजात इत्यर्थः । अत्र रवो मण्डूकादिध्वनिषु प्रसिद्भः । न तूक्तरूपे सिंहनादे । __भमः प्रक्रमः प्रस्तावो यत्र । यथा
नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता।
कुलाङ्गनानां हि दशानुरूपं नात; परं भद्रतरं समस्ति । ___ अत्र गतेति प्रक्रान्ते यातेति कृते प्रक्रमो भग्नः । गता निशापीति तु युक्तम् । ननु कथितपदस्य दुष्टत्वाभिधानात् कथमेकस्य पदस्य द्विःप्रयोग इति चेद, उच्यते-उद्देश्यप्रतिनिर्देश्यव्यतिरिक्त एव विषये एकप्रयोगस्य निषेधात् । प्रत्युत तादृशि विषये तस्यैव पदस्य सर्वनाम्नो वा प्रयोगं विना दोषः । तथा हि -
. उदेति सविता ताम्रस्ताम्र एवास्तमेति च ।
• संपत्तौ च विपत्तौ च महतामेकरूपता ॥ अत्र रक्त एवेति यदि क्रियते तदा पदान्तरप्रतिपादितः स एवार्थः अर्थान्तरतयेव भासमानो नैकरूप्यमावहति । ननु पर्यायशब्दानां शक्यतावच्छेदकैक्यनियमात् कथमन्यत्वेन प्रतीतिरिति चेत् , उच्यते- यन्मते शाब्दबोधे शब्दो भासते तन्मते रक्तादिशब्दान्तरस्य भानात् ऐकरूप्यासंभवात्, इदमपि न । शाब्दबोधे शब्दभाननैयत्याभावादिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org